________________
देवेन्द्रसूरिविरचितः सावचूरिकः
[ गाथा १४ विकलत्रिक-द्वित्रिचतुरिन्द्रियजातयः १७ एकेन्द्रियजातिः १८ स्थावरनाम १९ आतपमाम २० नपुंसकवेदः २१ मिथ्यात्वं २२ हुण्डसंस्थानं २४ सेवार्तसंहननम् २४ ॥ २ ॥
"अण" ति अनन्तानुबन्धिक्रोधमानमायालोभाः २८ 'मध्याकृतयः' मध्यमसंस्थानानिन्यग्रोधपरिमण्डलं सादि वामनं कुब्जं चेति ३२ मध्यमसंहननानि-ऋषभनाराचं नाराचम् अर्धनागचं कीलिका चेति ३६ “कुखग' त्ति अशुभविहायोगतिः ३७ नीचेगोत्रं ३८ स्त्रीवेदः ३९ दुर्भगत्रिकं-दुर्भगदुःस्वराऽनादेयरूपं ४२ स्त्यानचित्रिकं-निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्विलक्षणम् ४५ उद्योतनाम ४६ तिर्यद्विकं-तिर्यग्गनितिर्यगानुपूर्वीरूपम् ४८ तिर्यगायुः ४९ नरायुः ५० नरद्विकं-नरगतिनगनुपूर्वीलक्षणम् ५२। औदारिकद्विकम्-औदारिकशरीरमोदारिकाङ्गोपाङ्गनाम च ५४ वज्रऋषभनाराचसंहननम् ५५ इति पञ्चपञ्चाशत्प्रकृतिसङ्ग्रहः ॥३॥
अर्थतस्य प्रकृति सङ्ग्रहस्य यथास्थानमुपयोगं दर्शयन् मार्गणास्थानानां प्रथमं गतिमार्गणास्थानमाश्रित्य वन्धः प्रतिपाद्यते
सुरइगुणवीसवज्ज, इगसउ ओहेण बंधहिं निरया । तित्थ विणा मिच्छि सयं, सासणि नपुचउ विणा छनुई ॥४॥
व्याख्या-"जिण सुरविउवाहार" (गा० २) इत्यादिगाथोक्ताः क्रमेण सुरद्विकायेकोनविंशतिप्रकृतीवजयित्वा शेषेमेकोत्तरशतमोघेन नारका बध्नन्ति । अयमत्राभिप्रायःएता एकोनविंशतिकर्मप्रकृतीवन्धाधिकृतकर्मप्रकृतिविंशत्युत्तरशतमध्याद् मुक्त्वा शेषस्यैको. त्तरशतस्य नरकगतौ नानाजीवापेक्षया सामान्यतो बन्धः, सुरदिकायकोनविंशतिप्रकृतीनां तु भवप्रत्ययादेव नारकाणामबन्धकत्वात् । सामान्येन नरकगतौ बन्धमभिधाय सम्प्रति तस्यामेव मिथ्यादृष्टयादिगुणस्थानचतुष्टयविशिष्टं तं दर्शयति-"तित्थ विणा" इत्यादि । प्रागुक्तमेकोत्तरशतं तीर्थकरनाम विना मिथ्यादृष्टिगुणस्थानके शतं भवति । एतच्च शतं नपुंसकवेदमिथ्यात्वहुण्डसंस्थानसेवार्तसंहननप्रकृतिचतुष्कं विना सासादनगुणस्थानके षण्णवति रकाणां बन्धे ॥४॥
विण अणछवीस मीसे, बिसयरि सम्मम्मि जिणनराउजया।
इय रयणाइसु मंगो, पंकाइसु तित्थयरहीणो ॥५॥ व्याख्या-प्रागुक्ता षण्णवतिरनन्तानुबन्ध्यादिषड्विंशतिप्रकृतीविना मिश्रगुणस्थाने सप्ततिः । सैव जिननामनरायुष्कयुता सम्यग्दृष्टिगुणस्थानके द्विसप्ततिः । 'इति' एवं बन्धमाश्रित्य भङ्गः 'रत्नादिषु' रत्नप्रभाशर्कराप्रभावालुकाप्रभाभिधानप्रथमनरकपृथिवीत्रये द्रष्टव्यः । पङ्कप्रभादिषु पुनरेष एव भङ्गस्तीर्थकरनामहीनो विज्ञेयः । अयमर्थः- पङ्कप्रभाधूमप्रभातमःप्रभासु सम्यक्त्वसद्भावेऽपि क्षेत्रमाहात्म्येन तथाविधाध्यवसायाभावात् तीर्थकरनामवन्धो नारकाणां नास्तीतिः