________________
३४ ]
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
॥ अथ प्रशस्तिः ॥
Sr.
विष्णो यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । कर्ममलपटलमुक्तः, स श्रीवीरो जिनो जयतु ॥ १ ॥ कुन्दोज्ज्वलकीर्तिभरैः, सुरभीकृत सकलविष्टपाभोगः । शतमखशतविनतपदः, श्री गौतम गणधरः पातु ॥ २ ॥ तदनु सुधर्मस्वामी जम्बूप्रभवादयो मुनिवरिष्ठाः । श्रुतजलनिधिपारीणाः, भूयांसः श्रेयसे सन्तु ॥ ३ ॥
॥ ५ ॥
- क्रमात् प्राप्ततपाचार्येत्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे, श्रीजगन्चन्द्रसूरयः ॥ ४ ॥ जगज्जनितबोधानां तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्र सूरयः स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा कर्मस्तत्रस्य टीकेयं, सुखबोधा विनिर्ममे ॥ ६ ॥ विधवधर्मकीर्तिश्रीविद्यानन्दभूरिमुख्यबुधैः । स्वपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥ ७ ॥ यद्गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे । विद्वद्भिस्तच्चज्ञैः, प्रसादमाधाय तच्छोध्यम् ॥ ८ ॥ कर्मस्वसूत्रमिदं विवृण्वता यन्मयाऽर्जितं सुकृतम् । सर्वेऽपि कर्मबन्धास्तेन त्रुट्यन्तु जगतोऽपि ॥६॥
इति स्वोपज्ञटीकोपेतः कर्मस्तयः ।
[ ११३