________________
॥ अर्हम् ॥
तपागच्छीयपूज्य श्रीदेवेन्द्रसूरिविरचितः बन्धस्वामित्वनामा तृतीयः कर्मग्रन्थः ।
vedigge
सावचूरिकः
सम्यग् बन्धस्वामित्वदेशकं वर्धमानमानम्य | बन्धस्वामित्वस्य व्याख्येयं लिख्यते किञ्चित् ॥
sa स्वपरोपकाराय यथार्थाभिधानं बन्धस्वामित्वप्रकरणमारिप्सुराचार्यो मङ्गलादिप्रतिपादिकां गाथामाह -
'बंधविहाणविमुक्कं, वंदिय सिरिवण्डमाणजिणचंदं । गयासु वुच्छं, समासओ बंधसामिप्तं ॥ १ ॥
व्याख्या - इह प्रथमार्धेन मङ्गलं द्वितीयार्धेनाऽभिधेयं साक्षादुक्तम् । प्रयोजनसम्बन्धौ तु सामर्थ्यगयौ । तत्र बन्धः - कर्मपरमाणूनां जीवप्रदेशैः सह सम्बन्धस्तस्य विधानं - मिथ्यात्वादिभिर्बन्धहेतुभिर्निर्वर्तनं बन्धविधानं तेन' विमुक्तः स तथा तं बन्धविधानविमुक्तं वन्दित्वा श्रीवर्धमानजिनचन्द्रम् 'वक्ष्ये' अभिधास्ये 'समासतः' संक्षेपतो न विस्तरेण, किम् ? इत्याह‘बन्धस्वामित्वं' बन्धः-कर्माणूनां जीवप्रदेशैः सह सम्बन्धस्तस्य स्वामित्वम् - आधिपत्यं जीवानामिति गम्यते । केषु ? " गइयाईसु" ति गतिरादिर्येषां तानि गत्यादीनि, आदिशब्दाद् इन्द्रि - यादिपरिग्रहः, तेषु गत्यादिषु मार्गणास्थानेषु ।
१
अत्र चेयं मार्गणास्थानप्रतिपादिका बृहदबन्धस्वामित्वगाथा
ग १ इंदिए य २ का ३, जोए ४ वेए ५ कसाय ६ नाणे य ७ ।
संजम दंसण लेसा १०, भव ११ सम्म १२ सन्नि १३ आहारे १४ || ( गा० २ ) - तत्र गतिश्चतुर्धा - नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिरिति १ । इन्द्रियं स्पर्शनरसन - घ्राणचचुःश्रोत्रभेदात् पञ्चधा, इन्द्रियग्रहणेन च तदुपलक्षिता एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिया गृह्यन्ते २ । कायः षोढा पृथिव्यप्तेजोवायुवनस्पतित्रसका यभेदात् ३ | योगः पञ्चदशधा-सत्यमनोयोगः १ असत्यमनोयोगः २ सत्यासत्यमनोयोगः ३ असत्यामृषामनोयोगः ४सत्यवाग्योगः ५असत्यवाग्योगः ६ सत्यासत्यवाग्योगः ७ असत्यामृषावाग्योगः ८ वैक्रियकाययोगः ६ आहारककाययोगः १० औदारिककाययोगः ११ वैक्रियमिश्रकाययोगः १२ आहारक
१०न विमुक्तं वन्दि० क० ग० घ० ॥