________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
शशधरकरनिकरविमलतरगुण गणोत्कीर्तनेन स्तुतः शिरसा च प्रणतः 'बदुङ् स्तुत्यभिवादनयोः” इति वचनात्, यद्वा पर्दैकदेशे पदसमुदायोपचाराद्, देवेन्द्रेण - देवेन्द्रसूरिणा आचायेग श्रीमज्जगच्चन्द्रसूरिचरणसरसीरुहचञ्चरीकेण वन्दितः सकलकर क्षयलक्षणाऽसाधारणगुणसङ्कीर्तनेन स्तुतः कायेन च प्रणत इति । 'नमत' इति प्रेरणायां पञ्चम्यन्तं क्रियापदम् तच्च श्रोतॄणां कथञ्चिदनाभोगवशतः प्रमादसम्भवेऽप्याचार्येण नोद्विजितव्यम्, किन्तु मृदुमधुरवचोभिः शिक्षानिबन्धनैः श्रोतॄणां मनांसि प्रह्लाद्य यथार्ह सन्मार्गप्रवृत्तिरुपदेष्टव्या इति ज्ञापनार्थम् । यदाह प्रवचनोपनिषद्वेदी भगवान् हरिभद्रसूरि :
"
११२
'अणुवत्तणाइ सेहा, पायं पार्वति जुग्गयं परमं ।
रणं पि गुणुक्करिसं, उवेइ सोहम्मणगुणेणं || (पञ्चव० गा० १७ ) इत्थ य पमायखलिया, पुव्वन्भासेण कस्स व न हुंति ।
जो तेऽवइ सम्मं, गुरुत्तणं तस्म सफलं ति ।। (पञ्चव० गा० १८ ) को नाम सारहीणं, स हुज्ज जो भदवाइणो दमए ।
दुट्ठे वि य जो आसे, दमेइ तं सारहिं विंति || (पञ्चव० गा० १६ ) इति ||३४||
॥ इति श्री देवेन्द्रसूरिविरचितायां स्वोपज्ञकर्मस्तत्रटीकार्या सत्ताधिकारः समाप्तः || || तत्समाप्तौं च समाप्ता लघुकर्मस्तवटीका ||
सत्ताधिकारमेनं विवृण्वता यन्मयाऽर्जितं सुकृतम् । निःशेषकर्मसत्तारहितस्तेनास्तु लोकोऽयम् ||
१ अनुवर्तनया शिक्षकाः प्रायः प्राप्नुवन्ति योग्यतां परमाम् । रत्नमपि गुणोत्कर्षमुपैति शोधकगुणेन ॥ अत्र च प्रमादस्खलितानि पूर्वाभ्यासेन कस्य वा न भवन्ति ? | यस्तानि अपनयति सम्यग् गुरुत्वं तस्य सफलमिति को नाम सारथीनां स भवेद् यो मद्रवाजिनो दमयेत् ? । दुष्टानपि च योऽश्वान् दमयति तं सारथिं न वते ॥