________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
'एकशतम् ' एकाधिकं शतं सत्तायाम् । तत्र च "दुनिख उ" त्ति निद्राप्रचलयोर्द्वयोः क्षयो भवति, ततो नवनवतिश्वरमसमये क्षीण मोहगुणस्थानस्येति शेषः । तत्र चत्वारि चीन दर्शनानि च चतुर्दर्शनानि - चक्षुरचक्षुरवधिकेवलदर्शनावरणाख्यानि, ज्ञानानि ज्ञानावरणानि - मतिश्रुतावधिमनःपर्यायकेवलज्ञानावरणलक्षणानि पञ्च, विघ्नानि-दान लाभभोगोपभोगवीर्य-विघ्नरूपाणि पञ्च तेषामन्तो भवति ||३०|| ततः -
११०
पणसोइ सजोगि अजोगि दुचरिमं देवखगइगंधदुगं । फासह वन्नरसतणुबंध संघायपण निर्मिणं ॥ ३१॥
पञ्चाशीतिः सयोगिकेवलिनि सत्तायां भवति । ततः " अजोगि दुचरिमे" त्ति अयोगdafor द्विरम इत्येतासां द्विसप्ततिप्रकृतीनां क्षयो भवति । ता एवाह - "देवखगइगंधदुर्ग" ति । द्विकशब्दस्य प्रत्येकं योगाद् देवद्विकं - देवगतिदेवानुपूर्वीरूपम्, खगतिद्विकं - शुभ विहायोगत्य शुभ विहायोगतिरूपम्, गन्धद्विकं - तुरभिगन्धाऽसुरभिगन्धाख्यम्, "फासह " त्ति स्पर्शाष्टकं - गुरुलघुमृदुखरशीतोष्ण स्निग्धरूक्षाख्यम्, "वन्नरसतणुबंधण संवायपण" त्ति पञ्चकशब्दस्य प्रत्येकं सम्बन्धाद् वर्णपञ्चकं कृष्णनीललोहितद्दारिद्र शुक्लाख्यम्, रसपञ्चकं- तिक्तकटुकषायाम्लमधुररूपम्, तनुपञ्चकम् - औदारिकवै कियाहारकतैजसकार्मणतनुलक्षणम्, एवं तनुनाम्ना बन्धनपञ्चकं सङ्घातनपञ्चकं च वाच्यम्, "निमिण" त्ति निर्माणमिति || ३१ ॥
संघयणअधिरसंठाणछक्क अगुरुलहुचर अपज्जतं ।
सायं व असायं वा, परितुवंगतिग सुसर नियं ॥ ३२ ॥
षट्कशब्दस्य प्रत्येकं योगात् संहननषट्कं वज्रऋषभनाराचऋषभनाराचनाराचाऽर्धनाराचकीलिका सेवार्त संहननाख्यम् अस्थिरपट्कम् अस्थिराऽशुभदुर्भगदुः स्वराऽनादेयाऽयशः कीर्ति रूपम्, संस्थान पट्कं समचतुरनन्यग्रोधपरिमण्डलसादिवामन कुब्जहुण्ड संस्थानाख्यम्, अगुरुलघुचतुष्कम्-अगुरुलघूपघातपराघातोच्छ्वासाख्यम्, अपर्याप्तम्, सातं वाऽसातं वा एकतरवेदनीयं, यदनुदयावस्थम्, "परित्तुवंगतिग" त्ति त्रिकशब्दस्य प्रत्येकं सम्बन्धात् प्रत्येकत्रिकं - प्रत्येकस्थिरशुभाख्यम्, उपाङ्गत्रिकम् - औदारिकवैक्रियाऽऽहारकाङ्गोपाङ्गरूपम्, सुस्वरम्, “नियं" ति नोचैर्गोत्रमिति ।। ३२ ।।
9
बिसरिओ य चरिमे, तेरस मणुयतसतिग जसाइज्जं । सुभगजिणुच्च पणिदिय सायासाएगयरछेओ ||३३||
' इत्येतासां द्विसप्ततिप्रकृतीनामयोगिके वलि द्विचरमसमये सत्तामाश्रित्य क्षयो भवति । ततः पूर्वोक्तपञ्चाशीतेरिमा द्विसप्ततिप्रकृतयोऽपनीयन्ते शेपास्त्रयोदश प्रकृतयोऽयोगिचरमसमये