________________
२७-३० ] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
१०६ ताख्यम , थीणतिग" ति स्त्यानचित्रिक-निद्रानिद्राप्रचलाप्रचलास्त्यानदिलक्षणम् , "इग" त्ति एकेन्द्रियजातिः, “विगल" त्ति विकलेन्द्रिय'जातयः-द्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिलक्षणाः, “साहारं" ति साधारण नाम इत्येतासां षोडशानां प्रकृतीनां क्षयः सत्तामाश्रित्य भवति । ततोऽनिवृत्तिवादरस्य 'द्वय शे' द्वितीयभागे द्वाविंशं शतं भवति । तत्र "बियतियकमायं तु" ति कपायशब्दस्य प्रत्येकं योगाद् द्वितीयकमायाः-अप्रत्याख्यानावरणाश्चत्वारः, तृतीयकषायाः-प्रत्याख्यानावरणाश्चत्वार इत्येतासामष्टानां प्रकृतीनामन्तः-क्षयः । ततस्तृतीयांशे चतुर्दशशतं भवतीति ।।२८।। एतदेवाह
तइयाइसु चउदसनेरवारलपणचउतिहिय सय कमसो ।
नपुइथिहासछगपुसतुरियकोहमयमायखओ ।।२९॥ तृतीयादिपु भागेषु चतुर्दश च त्रयोदश च द्वादश च षट् च पञ्च च चत्वारि च त्रीणि चेति द्वन्द्वः, तैरधिकं शतम् , “तिहिय सय" इत्यत्राकारलोपो विभक्तिलोपश्च प्राकृतत्वात् , 'क्रमशः' क्रमेण सत्तायां भवति । कथम् ? इत्याह-"नपुइस्थि' इत्यादि । नपुंच-नपुंसकवेदः स्त्री च-स्त्रीवेदः हास्यषट्कं च-हास्यरत्यरतिशोकभयजुगुप्साख्यं पुमांश्च-पुवेदः नपुस्त्रीहास्यपटकपुमांसः, क्रोधश्च-कोपः मदश्च-मदो मानोऽहङ्कार इति पर्यायाः माया चनिकृतिः क्रोधमदमायाः, तुर्या:-चतुर्थाः संज्वलनाः क्रोधमदमायास्तुर्यक्रोधमदमायाः, नपुंस्त्रीहास्यषट्कपुमांसश्च तुर्यक्रोधमदमायाश्च नपुंस्त्रीहास्यपदकपुतुर्यक्रोधमदमायाः, तासां 'क्षयो नपुंस्त्रीहास्यषटकपुतुर्यक्रोधमदमायाशयः । 'मायखओ' इत्यत्र हस्वत्वं दीर्घह्रस्वौ मिथो वृत्तौ" (सि० ८-१-४) इत्यनेन प्राकृतसूत्रेण । इति गाथाक्षरार्थः । भावार्थस्त्वयम्-अनिवृत्तिबादरस्य तृतीये भागे द्वितीयतृतीयकषायाष्टक क्षये चतुर्दशाधिकं शतम् , चतुर्थभागे नपुंसकवेदक्षये त्रयोदशाधिकं शतम् , पञ्चमे भागे स्त्रीवेदक्षये द्वादशाधिकं शतम् , षष्ठे भागे हास्यपटकक्षये पडधिकं शतम् , सप्तमे भागे पुवेदक्षये पश्चाधिकं शतम् , अष्टमे भागे संज्वलनक्रोधक्षये चतुरधिकं शतम् , नवमे भागे संज्वलनमानक्षये व्यधिकं शतम् , संज्वलनमायाक्षये तु द्वयधिकं शतं सत्तायां भवति । तच्च सूक्ष्मसम्पराये ।।२९।। तथा चाह
सुहुमि दुसय लोहंतो, खीणदुचरिमेगसय दुनिद्दखओ।
नवनवइ चरमसमए चउदंसणनाणवितो ॥३०॥
"सुहृमि" त्ति सूक्ष्मसम्पराये 'द्विशतं' द्वाभ्यामधिकं शतं सत्तायां भवति । तत्र च 'लोभान्तः' संज्वलनलोभस्य क्षयः । ततः 'खीणदुचरिमेगसउ" ति क्षीणमोहद्विचरमसमये
१ जातिः-द्वी क० घ० ॥ २ °णा 'सा' क८ घ० ।।