________________
देवेन्द्रसूरिविरचितस्वीपज्ञटीकोपेतः
[ गाथा क्षपकं 'तुः' पुनरर्थे, 'क्षपकं पुनः ‘प्रतीत्य' आश्रित्य 'चतुर्ध्वपि' अविरतदेशविरतप्रमत्ताप्रमतेषु "पणयालं" ति पश्चचत्वारिंशं शत नथवा भवति । अथवाशब्द इहापि सम्बध्यते । कथम् ? इत्याह -"नरयतिरिसुराउ विण" ति, आयुःशब्दस्य प्रत्येकं योगात् नरकायुस्तियगायुः सुरायुर्विना- अन्तरेण । इदमुक्तं भवति--यो जीवो नारकतिर्यक्सुरेषु चरमं तद्भवमनुभूय मनुष्यतयोत्पन्नस्तस्य नारकतिर्यक्सुरापि स्वस्वभवे व्यवच्छिन्नसत्ताकानि जातानि, पुनस्तदनवाप्तेः । उक्तं च
सुरनरयतिरियआउं, निययभवे सञ्चजीवाणं । (बृ० क० स्त० गा० ६) इति ।
इयं चैतेषु गुणस्थानेषु सामान्यजीवानां सम्भवमाश्रित्य सत्ता वर्णिता, न त्वधिकृतस्तवस्तुत्यस्य चरमजिनपरिवृढस्य, अस्याः सुरनारकतिर्यगायुःसम्भवापेक्षणीयत्वाद् , जिनस्य च तदसम्भवात् , तस्यापि च प्राग्भवापेक्षया सम्भवो वाच्यः । इदमेव पञ्चचत्वारिंशं शतं सप्तकमनन्तानुबन्धिमिथ्यात्वमिश्रसम्यक्त्वाख्यं विनाऽष्टात्रिंशं शतं भवति । क्रियन्ति गुणस्थामानि यावद् ? इत्याह-"जा अनियट्टी पढमभागु" त्ति, इहानिवृत्तिवादराद्धाया नव भागाः क्रियन्ते, ततोऽविरते देशविरते प्रमत्तेऽप्रमत्ते निवृत्तिबादरेऽनिवृत्तिबादरस्य च प्रथमो भागस्तावदष्टात्रिंशं शतं भवति । उक्तं च
संते अडयालसयं, खवगं तु पडुच्च होइ पणयालं । “आउतिगं नत्थि तहिं, सत्तगखीणम्मि अडतीसं ।।
(वृ० क० स्त० भा० गा० २६) "पणयालं अडतीसं, अविरयसम्माउ अप्पमत्तु त्ति । __ अप्पुच्चे अडतीसं, नवरं खवगम्मि बोधव्वं ॥
अथ क्षपकश्रेणिमधिकृत्याऽनिवृत्तिवादरादिषु प्रकृतिषु सत्ता वर्ण्यते उपशमश्रेणिसत्तायास्त्विह नाधिकार इति
थावरतिरिनिरयायवदुग थीणतिगेग विगल साहारं ।
सोलखओ दुवीससयं, षियंसि बियतियकसायंतो ॥२८॥ इहानिवृत्तिबादरस्य प्रथमे भागेऽष्टात्रिंशं शतं सत्तायां भवति । तत्र च "थावरतिरिनिरयायवदुग" ति द्विकशब्दस्य प्रत्येकं योगात् । स्थावरद्विकं-स्थावरसूक्ष्मलक्षणम् , तिर्यद्विकं-तिर्यग्गतितिर्यगानुपूर्वीरूपम् , नरकद्विकं-नरकगतिनरकानुपूर्वीलक्षणम् , आतपद्विकम्--आतपोद्यो
१०पकजिन पु० ख० ग० ॥ २ सुरनरकतिर्यगायुर्निजकमवे सर्वजीवानाम् ॥३ सत्तायामष्टचत्वारिंशं शतं क्षपकं तु प्रतीत्य भवति पञ्चचत्वारिंशम्। आयुस्त्रिकं नास्ति तत्र सप्तके क्षीणेऽष्टाविंशम् ॥ ४ पञ्चचत्वारिंश. मष्टात्रिंशमविरतसम्यक्त्वादप्रमत्त इति । अपूर्वेऽष्टात्रिंशं नवरं क्षपके बोद्धव्यम् ।।