________________
२४-२७ ]
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । म्तीर्थकरनाम्नोऽपि सत्ता सम्भवतिः सास्वादनमिश्रयोस्तु तस्मिन्नेव जिननामरहिते सप्तचत्वारिंशं शतं सत्तायां, जिननामसत्कर्मणो जीवस्य तद्भावाऽनवाप्तेः, तद्वन्धारम्भस्य च शुद्धसम्यक्त्वप्रत्ययत्वात् । यदुक्तं बृहत्कर्मस्तवभाष्ये--
तित्थयरेण विहीणं, सीयालसयं तु संतए होइ ।
सासायणम्मि उ गुणे, सम्मामीसे य पयडीणं ।। (गा० २५) अविरतसम्यग्दृष्टयादीनामक्षिप्तदर्शनसप्तकानामष्टचत्वारिंशस्यापि शतस्य सत्ता सम्भवतीति ॥२५॥
अप्पुव्वाइचउक्के, अण तिरिनिरयाउ विणु विआलसयं । - सम्माइच उसु सत्तगखयम्मि इगचत्तसयमहवा ॥२६॥
गाथापर्यन्तवय॑थवाशब्दस्य सम्बन्धात् पूर्वं तावदष्टचत्वारिंशं शतं सत्तायामुक्तम् , अथवाऽयमपरः सत्तामाश्रित्य भेदः, तथाहि-'अपूर्वादिचतुष्के' अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहरूपे "अण'' त्ति अनन्तानुबन्धिचतुष्कं “तिरिनिरयाउ" ति आयु:शब्दस्य प्रत्येकं योगात् तिर्यगायुर्नरकायुश्च विना द्विचत्वारिंशं शतं भवतीति । अयमाशयः-यः कश्चिद् विसंयोजितानन्तानुबन्धिचतुष्को बद्धदेवायुर्मनुजायुषि वर्तमान उपशमश्रेणिमारोहति, तस्य तिर्यगायुर्नरकायुरनन्तानुबन्धिचतुष्कलक्षणप्रकृतिषट्करहितं शेषं द्विचत्वारिंशं शतं सत्तायां प्राप्यते । यदुक्तं बहकर्मस्तवभाष्ये--
अणतिरिनारयरहियं, बायालसयं वियाण संतम्मि । - उवसामगस्सऽपुव्वानियट्टि सुहुमो व संतम्मि ॥ (गा० २६)
"सम्माइचउसु" त्ति सम्यक्त्वादिचतुषु--अविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तेषु “सत्तगखयम्मि" त्ति अनन्तानुवन्धिचतुष्कमिथ्यात्वमिश्रसम्यक्त्वलक्षणसप्तकक्षये सत्येकचत्वारिंशं शतमथवा सत्तायां भवति । इहाप्यथवाशब्द आवृत्त्या योज्यते । यदुक्तं बृहत्कर्मस्तवस्त्रे
अणमिच्छमीससम्मं, अविरयसम्माइअप्पमत्तंता । (गा० ६) इति ॥२६।। खवगं तु पप्प चउसु वि, पणयालं नरयतिरिसराउ विणा । सत्तग विण अडतीसं, जा अनियही पढमभागो ॥२७॥
१ तीर्थकरेण विहीनं सप्तचत्वारिंशं शतं तु सत्तायां भवति । सास्वादने तु गुणे सम्यग्मिश्रे च प्रकृतीनाम् ।। २ अनतिर्यनारकरहितं द्वाचत्वारिंशं शतं विजानीहि सत्तायाम् । उपशामकस्य अपूर्वस्याऽनिवृत्तेः सूक्ष्मस्य (अपूर्वस्येत्यादौ विभक्तिव्यत्ययात्षष्ठी) वा सत्तायाम् (अनेत्यनेनानन्तानुबन्धिचतुष्कं गृह्यते) ॥ ३ अनमिथ्यामिश्रसम्यक् अविरतसम्यक्त्वाद्यप्रमत्तान्तम् ॥ (अत्राप्यनेत्यनेनानन्तानुबन्धिचतुष्कं ।)