________________
देवेन्द्रसूरिविरचितस्त्रोपटीकोपेतः
ख्यपञ्चप्रकृतयो व्यवच्छिद्यन्ते उदीरणामाश्रित्य पुनः स्त्यानद्धित्रिकाहारकद्विकसातासातमनुजायुर्लक्षणा अष्टौ प्रकृतय इति मनुजायुः सातासातरूपप्रकृतित्रयेणाऽप्रमत्तादिषु ऊना उदीरणा वाच्येति । ' अयोगी' अयोगिकेवली 'अनुदीरकः' न किमपि कर्मोदीरणया क्षिपति, योगाभावात्, उदीरणा हि योग/कृ' तकरणविशेष इति भगवान् परमप्रयत्नवान् सर्वसंवररूपचारित्रधर्मवान् वेत्यर्थः ।। २४ ।।
इति श्रीदेवेन्द्रसूरिविरचितायां स्वोपज्ञकर्मस्तवटीकायामुदीरणाधिकारः समाप्तः ॥
१०६
सुकृतं मया यदाप्तं विवृण्वतोदीरणाधिकारमिमम् । तेनास्तु सर्वलोको, दुष्कर्मोदीरणारहितः ||
[ गाथा
अथ सत्ता लक्षण कथनपूर्वकं यथा तेन भगवता त्रिलोकीपतिना श्रीमद्वर्धमानस्वामिना सत्तामाश्रित्य गुणस्थानेषु कर्माणि क्षपितानि तथा प्रतिपादयन्नाह -
सत्ता कम्माण ठिई, बंधाईलडअत्तलाभाणं ।
संते अडयालसयं, जा उवसमु विजिणु विगतहए ||२५||
सत्ता उच्यत इति शेषः, किम् ? इत्याह- 'कर्मणा' ज्ञानावरणादियोग्यपरमाणूनां स्थितिः अवस्थानं सद्भाव इति पर्यायाः । किंविशिष्टानां कर्मणाम् ? इत्याह- 'बन्धादिलब्धात्मलाभानां' तत्र मिथ्यात्वादिभिर्हेतुभिः कर्मयोग्य पुद्गलैरात्मनो वह्नययः पिण्डवद् अन्योऽन्यानुगमाभेदात्मकः सम्बन्धो बन्धः, आदिशब्दात् सङ्क्रमकरणादिपरिग्रहः, ततो बन्धादिभिर्लब्धःप्राप्त आत्मलाभः - आत्मस्वरूपं यैस्तानि बन्धादिलन्धात्मलाभानि तेषां बन्धादिलब्धात्मलाभानां कर्मणां या स्थितिः सा सत्ता, तस्यां "संते" "त्ति सत्कर्मणि- सत्तायामष्टाचत्वारिंशं शतं प्रकृतीनां भवति । कियन्ति गुणस्थानानि यावद् ? इत्याह - " जा उवसमु" त्ति 'यावदुपशमम्' उपशान्तमोहम् । अयमर्थः – मिथ्यादृष्टिगुणस्थानात् प्रभृत्युपशान्तमोहगुणस्थानं यावदष्टाचत्वारिंशं शतं सत्तायां भवति । किमविशेषेण ? नेत्याह - "विजिणु वियतइए" त्ति विगतं जिननाम यस्मात् तद् विजिनं जिननामविरहितं तदेवाष्टाचत्वारिंशं शतं भवति । क्व ? इत्याह- द्वितीये - सास्वादने तृतीये - मिश्रदृष्टौ " " सासण मिस्सरहिएसु वा तित्थं " इति वचनात् सास्वादनमिश्रयोः सप्तचत्वारिंशं शतं भवतीत्यर्थः । इदमत्र हृदयम् - इह मिथ्यादृष्टेरष्टचत्वारिंशमपि शतं सत्तायाम् ; यदा हि प्राग्बद्धनरकायुः क्षायोपशमिकं सम्यक्त्वमवाप्य तीर्थकरनामनो बन्धुमारभते तदाऽसौ नरकेषूत्पद्यमानः सम्यक्त्वमवश्यं वमतीति मिथ्यादृष्टे
१ •तः कर० ग० ङ० || २ ०गमोऽभे० ङ० || ३ सास्वादनमिश्ररहितेषु वा तीर्थङ्करम् ॥