________________
२३-२४ ] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
१०५ अथ तस्य भगवतः कस्मिन् गुणस्थाने कियत्यः प्रकृतय उदीरणामाश्रित्य व्यवच्छिन्ना ? इत्येतदतिदेशद्वारेणाह--
उदय व्वुदीरणा परमपमत्ताईसगगुणेसु ॥ २३ ॥ उदयवद् उदीरणां पूर्वोक्तशब्दार्था गुणस्थानेषु वक्तव्या । किमुक्तं भवति ? यावतीनां प्रकृतीनामुदयस्वामी तावतीनामुदीरणास्वाम्यपीति । अतिप्रसङ्गनिवृत्यर्थमाह--."परमपमत्ताईसगगुणसु" ति 'परं' केवलमियान विशेषः--अप्रमत्त आदो येषां तेऽप्रमत्तादयः गुणाः-- गुणस्थानानि, सप्त च ते गुणाश्च सप्तगुणाः, अप्रमत्तादयश्च ते सप्तगुणाश्च अप्रमत्तादिसप्तगुणास्तेष्वप्रमत्तादिसप्तगुणेषु ।। २३ । किम् ? इत्याह
एसा पयडितिगूणा, वेयणियाऽऽहारजुगल थीणतिगं । मणुयाउ पमत्तंता; अजोगि अणुदोरगो भगवं ।। २४ ।।
॥उदीरणा सम्मत्ता ।। 'एषा' उदीरणा प्रकृतित्रिकेण ऊना-हीना वक्तव्या । इयमत्र भावना-मिथ्यादृष्टेः सप्तदशोत्तरशतस्योदयः, उदीरणाऽप्येवम् । सास्वादनस्य एकादशशतस्योदयस्तथैवोदीरणाऽपि । मिश्रस्योदयः शतस्य, उदीरणाऽपि । अविरतसम्यग्दृष्टेरुदयश्चतुरुत्तरशतस्य, तथैवोदीरणा । देशविरतस्य सपाशीतेरुदयः, उदीरणाऽपि । प्रमत्तस्यैकाशीतेरुदयः, उदीरणाऽपि च । अप्रमत्ते उदयः षट्सप्ततेः, उदीरणा त्रिसप्ततेः १ अपूर्वकरणे उदयो द्विसप्ततेः, उदीरणा एकोनसप्ततेः २। अनिवृत्तिबादरे उदयः षट्पष्टेः उदीरणा त्रिषष्टेः ३ । सूक्ष्मसम्पराये उदयः पष्टेः. उदीरणा सप्तपश्चाशतः ४ । उपशान्तमोहे उदय एकोनषष्टेः उदीरणा षट्पञ्चाशतः ५। क्षीणमोहे उदयः सप्तपश्चाशतः. उदीरणा चतुष्पश्चाशतः ६ । सयोगिकेवलिन्युदयो द्विचत्वारिंशतः उदीरणा एकोनचत्वारिंशत ७ । इति ननु केन प्रकृतित्रिकेणाऽप्रमत्तादिषूदीरणा ऊना ? इत्याशङ्कयाह-वेयणियाहारजुगल" ति युगलशब्दस्य प्रत्येकं योजनाद् वेदनीययुगलं-सातवेदनीयाऽसातवेदनीयरूपम् आहारकयुगलम्---आहारकशरीराहारकाङ्गोपाङ्गलक्षणम् , “थीणतिगं" ति 'स्त्यानचित्रिक निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिरूपं, मनुष्यायुः इत्येतासामष्टानां प्रकृतीनां प्रमत्तेऽन्तः-व्यवच्छेद उदीरणां प्रतीत्य यासां ताः प्रमत्तान्ताः । अयमत्र भावार्थ:-स्त्यानचित्रिक) प्रमादरूपत्वाद् अप्रमत्तादिषु नास्त्येव, कुतस्तेषु तदुदीरणा ?; आहारकशरीरं च विकुर्वाण औत्सुक्याद् यतिः प्रमत्त एवेति अप्रमत्तादिषु तदपि नास्ति, कुतस्तेषु तदुदीरणा ?; सातासातमनुजायुषां हि प्रसादसहितेनैव योगेनोदीरणा भवति नान्येनेत्युत्तरेषु न तदुदीरणा । तदयमत्र तात्पर्यार्थः- उदयमाश्रित्य प्रमत्ते हि स्त्यानचित्रिकाहारकद्विका१४