________________
१०४ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा शरीरौदारिकाङ्गोपाङ्गलक्षणम् अस्थिरद्विकम्-अस्थिराऽशुभाख्यं खगतिद्विकं-शुभविहायोगत्यशुभविहायोगतिरूपम् “परित्ततिग" ति प्रत्येकत्रिकम्-प्रत्येकस्थिरशुभाख्यम् “छ संठाण" ति पटसंस्थानानि-समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुब्जहुण्डस्वरूपाणि संस्थानशब्दस्य च पुस्त्वं प्राकृतलक्षणवशात् , यदाह पाणिनिः स्वप्राकृतलक्षणे-"लिंग' व्यभिचार्यपि" | "अगुरुलहुवन्नचउ' त्ति चतुःशब्दस्य प्रत्येकं सम्बन्धाद् अगुरुलघुचतुष्कम्-अगुरुलघूपघातपराघातोच्छ्वासाख्यं वर्णचतुष्क-वर्णगन्धरसस्पर्शरूपम्-"निमिण' ति निर्माणं "तेय" त्ति तैजसशरीरं "कम्म" त्ति कार्मणशरीरं 'आइसंघयणं" ति प्रथमसंहननं-वज्रर्षभनाराचसंहननमित्यर्थः ।।२१।।
दूसर सूसर सायासाएगयर च तीस वुच्छेओ । बारस अजोगि सभगाइज जसनयरवेयणियं ।। २२ ।। तसतिग पणिदि मणुयाउगह जिणुच्चं ति चरमसमयंता ।
॥उदओ सम्मत्तो।। दःस्वरं सुस्वरं सातं च-सुखम् असातं च-दुःखं सातासाते तयोरेकतरम्-अन्यतरत् सातं वाऽसातं वेत्यर्थः, तदेतासां त्रिंशतः प्रकृतीनां सयोगिकेवलिन्युदयव्यवच्छेदः । तत्रैकतरवेदनीयं यदयोगिकेवलिनि न वेदयितव्यं तत् सयोगिकेवलिचरमसमये व्युच्छिन्नोदयं भवति, पुनरुतस्त्रोदयाभावात् । दुःस्वरसुस्वरनाम्नोस्तु भाषापुद्गलविपाकित्वाद् वाग्योगिनामेवोदयः, शेषाणां पुनः शरीरपुद्गलविपाकित्वात् काययोगिनामेव । तेन हि योगेन पुद्गलग्रहणपरिणामालम्बनानि, ततस्तेषु गृहीतेप्येतेषां कर्मणां स्वस्वविपाकेनोदयो भवति, तेनाऽयोगिकेवलिनि तद्योगाभावात् तदुदयाभाव इति एतास्त्रिंशत् प्रकृतयः पूर्वोक्तद्विचत्वारिंशतोऽपनीयन्ते, ततः शेषा द्वादश प्रकृतयोऽयोगिकेवलिन्युदयमाश्रित्य भवन्तीति । एतदेवाह-वारस अजोगि" इत्यादि । द्वादश प्रकृतयोऽयोगिकेवलिनि 'चरमसमयान्ताः' चरमसमयेऽयोगिकेवलिगुणस्थानस्यान्तः व्यवच्छेदो यास ताश्चरमसमयान्ताः । ता एवाह--सुभगं आदेयं "जस" ति यशःकीर्तिनाम अन्यतरवेदनीयं सयोगिकेवलिचरमसमयव्यवच्छिन्नोद्वरितं वेदनीयमित्यर्थः ॥२२॥ __ "तसतिगं" ति त्रसत्रिकं-त्रसवादरपर्याप्ताख्यं “पणिदि" त्ति पञ्चेन्द्रियजातिः "मणुयाउ. गइ" त्ति मनुजशब्दस्य प्रत्येकं योगात् मनुजायुमनुजगतिः “जिण" त्ति जिननाम "उच्चं" ति उच्चैोत्रम् इतिशब्दो द्वादशप्रकृतिपरिसमाप्तिद्योतक इति ।। ।। इति श्रीदेवेन्द्रसूरिविरचितायां स्वोपज्ञकर्मस्तवटीकायामुदयाधिकारः समाप्तः ।
उदयाधिकारमेनं, विवृण्वता यन्मयाऽर्जितं सुकृतम् ।
दुष्कर्मोदयरहितो, लोकः सोऽपि तेनास्तु ।। १ तत एता० ख० ॥