________________
१७-२१ ]
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः। नाराचद्विकम्-ऋषभनाराचसंहनननाराचसंहननाख्यं तस्यान्त उपशान्तगुणे भवति, प्रथमसंहननेनैव क्षपकश्रेण्यारोहणात् क्षीणमोहादौ तदुदयाभावः । उपशमश्रेणिस्तु प्रथमसंहननत्रयेणारुह्यते, तत इदं प्रकृतिद्वयं पूर्वोक्तकोनषष्टेरपनीयते, शेषा ॥ १९॥
सगवन्न खीण दुचरमि, निद्ददुगंतो य चरमि पणपन्ना।
नाणंतरायदंसणचउ छेओ सजोगि बायाला ॥२०॥
सप्तपश्चाशत "खीण" त्ति क्षीणमोहस्य "दुचरिमि" ति द्विचरमसमये-चरमसमयादाग द्वितीये समये निद्राद्विकस्य-निद्राप्रचलाख्यस्य क्षीणद्विचरमसमयेऽन्त इत्येतत् प्रकृतिद्वयं पूर्वोक्तसप्तपश्चाशतोऽपनीयते ततः “चरमि" ति चरमसमये क्षीणमोहस्येति शेषः, "पणपन्न" त्ति पञ्चपञ्चाशद् उदये भवति । इदमुक्तं भवति-निद्राप्रचलयोः क्षीणमोहस्य द्विचरमसमये उदयच्छेदः । अपरे पुनराहुः-उपशान्तमोहे निद्राप्रचलयोरुदयच्छेदः, पञ्चानामपि निद्राणां घोलनापरिणामे भवत्युदयः, क्षपकाणां त्वतिविशुद्धत्वाद् न निद्रोदयसम्भवः, उपशमकानां पुनरनतिविशुद्धत्वात् स्यादपीति "नाणंतरायदंसणचउ" ति ज्ञानावरणपञ्चक-मतिश्रुतावधिमनःपर्यायकेवलज्ञानावरणरूपम् अन्तरायपञ्चकं-दानलाभभोगोपभोगवीर्यान्तरायाख्यं दर्शनचतुष्क-चक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणमित्येतासां क्षीणमोहचरमसमये छेदो भवति, तदनन्तरं क्षीणमोहत्त्वाद् इत्येतत्प्रकृतिचतुर्दशकं पूर्वोक्तपश्चपञ्चाशतोऽपनीयते, शेपैकचत्वारिंशत् तीर्थकरनामोदयाच तत्प्रक्षेपे द्वाचत्वारिंशत् सयोगिकेवलिनि भवतीति । एतदेवाह"सजोगि बायाल" ति स्पष्टम् ॥२०॥
तित्थुदया उरलाऽधिरखगइदुग परित्ततिग छ संठाणा ।
अगुरुलहुवन्नचउ निमिणतेयकम्माइसंघयणं ॥ २१ ॥
ननु पञ्चपञ्चाशतो ज्ञानावरणपश्चकाऽन्तरायपञ्चकदर्शनचतुष्कलक्षणप्रकृतिचतुर्दशकापनयन एकचत्वारिंशदेव भवति, ततः कथमुक्तं सयोगिनि द्विचत्वारिंशत् १, इत्याह---"तित्थुदय' त्ति 'तीर्थोदयात्' तीर्थकरनामोदयादित्यर्थः । यतः सयोग्यादौ तीर्थकरनामोदयो भवति, यदुक्तम्--
उदए जस्स सुरासुरनरवइनिवहेहिँ पूइओ होइ । .
तं तित्थयरनाम, तस्स विवागो हु केवलिणो ॥ (वृ० क० वि० गा० १४६) ततः पूर्वोक्तैकचत्वारिंशति तीर्थकरनाम क्षिप्यते जाता द्विचत्वारिंशत् , सा च सयोगिनि भवतीति । "उरलाऽथिरखगइदुग' त्ति द्विकशब्दस्य प्रत्येकं योगाद्/औदारिकद्विकम्-औदारिक१ उदये यस्य सुरासुरनरपतिनिवहैः पूजितो मवति । तत् तीर्थ करनाम तस्य विपाको हि केवलिनः ।।