________________
[ गाथा
१०२
प्रमत्ते छेदो भवति, ततः पूर्वोक्तैकाशीतेरिदं प्रकृतिपञ्चकमपनीयते शेषा षट्सप्ततिरप्रमत्ते उदये भवति । अयमत्राशयः - स्त्यानर्द्धित्रिकोदयः प्रमादरूपत्वाद् अप्रमत्ते न सम्भवति, आहारद्विकं च विकुर्वाणो यतिरौत्सुक्याद् अवश्यं प्रमादवशगो भवत्यत इदमप्यप्रमत्ते उदयमाश्रित्य न जाघटीति, यत्पुनरिदमन्यत्र श्रूयते प्रमत्तयतिराहारकं विकृत्य पश्चाद् विशुद्धिवशात् तत्रस्थ एवाप्रमत्ततां पातीति तत् केनापि ' स्वल्पत्वादिना कारणेन पूर्वाचार्यैर्न विवक्षितमित्यस्माभिरपि न विवक्षितमिति ।। १७ ।
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
सम्मन्तंतिमसंघयणतिगच्छेओ विसत्तरि अपुच्वे । हासाइलक्कअंतो, उसट्ठि अनियट्टि वेयतिगं ॥ १८ ॥
सम्यक्त्वम् अन्तिमसंहननत्रिकम् - अर्धनाराचसंहननकीलिकासंहनन सेवार्त संहननरूपमि-त्येतत्प्रकृतिचतुष्टयस्याप्रमत्ते छेदो भवति, तत इदं प्रकृतिचतुष्कं पूर्वोक्तपट्सप्ततेरपनीयते शेषा द्वासप्ततिः "अपुव्वि" ति अपूर्वकरणे उदये भवतीति । अयमत्राशयः - सम्यक्त्वे क्षपिते उपशमिते वा श्रेणिद्वयमारुह्यत इत्यपूर्वकरणादौ तदुदयाभाव:, अन्तिमसंहननत्रयोदये तु श्रेणिमारोढुमेव न शक्यते तथाविधशुद्धेरभावाद् इत्युत्तरेषु तदुदयामावः । "हासाइछकअंतु "त्ति हास्यमादौ यस्य षट्कस्य तद् हास्यादिषट्कं - हास्यरत्यरतिशोकभय जुगुप्साख्यं तस्यान्तोऽपूर्वकरणे भवति, संक्लिष्टतर परिणामत्वाद् एतस्य उत्तरेषां च विशुद्धतरपरिणामत्वात् तेषु तदुदयाभाव इति । उत्तरेष्वप्ययमुदयव्यवच्छेदहेतुरनुसरणीयः । तत इदं प्रकृतिषट्कं पूर्वोक्तद्विसप्ततेरपनीयते शेषा "छसट्टि अनियट्टि" त्ति षट्पष्टिरनिवृत्तिनादरे भवति, उदयमाश्रित्येति शेषः । “वेयतिगं" ति वेदत्रिकं - स्त्रीवेदपु वेदनपु ंसक वेदाख्यम् || १८ |
संजलणतिगं छच्छेओ सहि सुहुमम्मि तुरियलोभतो । उवसंतगुणे गुणसट्टि रिसहनारायदुगअंतो ॥ १६ ॥
'संज्वलनत्रिकं' संज्वलन क्रोधमानमायारूपमित्येतासां षण्णां प्रकृतीनामनिवृत्तिवादरे छेदो भवति । तत्र स्त्रियाः श्रेणिमारोहन्त्याः स्त्रीवेदस्य प्रथममुदयच्छेदः ततः क्रमेण' पु' वेदस्य नपुंसकवेदस्य संज्वलनत्रयस्य चेति, पु'सस्तु श्रेणिमारोहतः प्रथमं पु' वेदस्योदयच्छेदस्ततः क्रमेण स्त्रीवेदस्य पण्डवेदस्य संज्वलनत्रयस्य चेति, षण्डस्य तु श्रेणिमारोहतः प्रथमं षण्ढवेदस्योदयच्छेदस्ततः स्त्रीवेदस्य वेदस्य संज्वलनत्रयस्य चेति । एतत्प्रकृतिपटकं पूर्वोक्तषट्षष्टेरपनीयते, शेषा "सट्टि सुमम्मि "त्ति षष्टिः सूक्ष्मसंपराये उदये भवति । अत्र च 'तुर्यलोभान्तः ' चतुर्थ - लोभान्तः संज्वलन लोभव्यवच्छेद इत्यर्थः । तत इयमेका प्रकृतिः षष्टेरपनीयते शेषा 'उपशान्तगुणे' उपशान्तमोहगुणस्थाने एकोनषष्टिरुदये भवति । "रिसहनारायदुगअंतु" ति ऋषभ