SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०१ १५-१७ ] कर्मवाद्वितीयः कर्मग्रन्थः । नारकत्रिकं च देवनारकवेद्यमेव, न च तेषु देशविरत्यादेः सम्भवः, वैक्रियशरीरवैक्रियाङ्गोपाङ्गनाम्नोस्तु देवनारकेषूदयः, तिर्यग्मनुष्येषु तु प्राचुर्येणाऽविरतसम्यग्दृष्टयन्तेषुः यस्तूतरगुणस्थानेष्वपि केषाञ्चिदागमे विष्णुकुमारस्थूलभद्रादीनां वैक्रियद्विकस्योदयः श्रूयते स प्रविरलतरत्वादिना केनापि कारणेन पूर्वाचार्यैर्न विवक्षित' इत्यस्माभिरपि न विवक्षित इति दुर्भगमनादेयद्विकमित्येतास्तु तिस्रः प्रकृतयो देशविरत्यादिषु गुणप्रत्ययाद् नोदयन्त इत्येता अविरते व्यवच्छिन्ना इति । " तिरिंग आउ" त्ति तिर्यक्शब्दस्य प्रत्येकं योगात् तिर्यग्गतिस्तिर्यगायुः " निउज्जोय " त्ति नीचैर्गोत्रमुद्योतं च "तिकसाय" ति तृतीयाः कषायास्त्रिकषाया मयूरव्यंसकादित्वात् पूरणप्रत्ययलोपी समासः, प्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोभाः ।। १६ ।। अच्छेओ इगसी, पमत्ति आहारजुगलपकखेवा | थीतिगाहारगदुगछेओ उस्सयरि अपमन्ते ॥ १७ ॥ पूर्वोक्ताष्टप्रकृतीनां देशविरते उदयमाश्रित्य च्छेदो भवति, ततः प्रमत्ते एकाशीतिभवति, आहारकयुगल प्रक्षेपात् । इदमत्र' हृदयम् - तिर्यग्गतितिर्यगायुषी तिर्यग्वे एव तेषु च देशविरतान्तान्येव गुणस्थानानि घटन्ते नोत्तराणीत्युत्तरेषु तदुदयाभावः नीचैर्गोत्रं तु तिर्यग्गतिस्वाभाव्याद् ध्रुवोदयिकं न परावर्तते, ततश्च देशविरतस्यापि तिरवो नीचैर्गोत्रो - दयोऽस्त्येव, मनुजेषु पुनः सर्वस्य देशविरतादेगुणिनो गुणप्रत्ययाद् उच्चैर्गोत्र मे वोदेतीत्युत्तरत्र नीचैर्गोत्रोदयाभावः, उद्योतनाम स्वभावतस्तिर्यग्वेद्यम्, तेषु च देशविरतान्तान्येव गुणस्थानानि नोत्तराणीत्युत्तरेषु तदुदयाभाव:, यद्यपि यतिवैक्रियेऽप्युद्योतनामोदेति " उत्तरदेहे च देवजई" इति वचनात् तथापि स्वल्पत्वादिना केनापि कारणेन पूर्वाचार्यैर्न विवक्षितमित्यस्माभिरपि न विवक्षितम्, तृतीयकपायोदये हि चारित्रलाभ एव न भवति, उक्तं च पूज्यै:/ तयकसायादए, पच्चक्खाणावरणनामधिजाणं । देसिकदेसविरई, चरित्तलंभं न उ लहंति ।। आ० नि० गा० ११० ) न च पूर्वप्रतिपन्नचारित्रस्य तदुदयसम्भव इत्युत्तरेषु तद्दृदयाभाव इत्येता अष्टौ प्रकृतयः पूर्वोक्तसप्ताशीतेरपनीयन्ते शेषा एकोनाशीतिः, तत आहारकयुगलं क्षिप्यते, यतः प्रमत्तयतेराहारकयुगलस्योदयो भवतीत्येकाशीतिः । " थीणतिग'' त्ति स्त्यानद्धित्रिकं - निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिरूपम् आहारकद्विकम् - आहारकशरीराहारकाङ्गोपाङ्गलक्षणमिति प्रकृतिपञ्चकस्य १ ०त इति । दुर्भ० क० घ० ङ० ॥ २ उत्तरदेहे च देवयती ॥। ३ तृतीयकषायाणामुदये प्रत्याख्याना - वरणनामधेयानाम् । देशैकदेशविरतिं चारित्रलाभं न तु लभन्ते ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy