________________
१००
देवेन्द्रसूरिविरचितस्त्रोपाटीकोपेतः
[ गाथा यात् मिश्रोदयेन च । अयमत्र भावः--नरकानुपूर्वी तावद् उदयमाश्रित्य सास्वादने व्यवच्छिन्ना, इह सा न गृह्यते शेषमानुपूर्वी त्रिकं मिश्रदृष्टेनों देति, तस्य मरणाभावात "न' सम्ममीसो कुणइ कालं” इति वचनात् ; मिश्रप्रकृतिः पुनरत्रोदये प्राप्यते, ततः सास्वादनव्यवच्छिन्नं प्रकृतिनवकमानुपूर्वी त्रिकं च पूर्वोक्तकादशशताद् अपनीयते शेषा तिष्ठति प्रकृतीनां नवनवतिः, तत्र मिश्रप्रकृतिप्रक्षेपे जातं शतमिति । “मीमंतु" ति मिश्रगुणस्थाने मिश्रप्रकृतेरन्तो भवति, एतदुदये हि मिश्रदृष्टिरेव भवति नान्य इति । "चउसयमजए सम्माणुपुविखेव" त्ति चतुर्भिरधिकं शतं चतुःशतमुदये भवति, क्व ? इत्याह-'अयते' अविरतसम्यग्दृष्टी, कथम् ? इत्याह-"सम्म" त्ति सम्यक्त्वं "अणुपुवि" ति आनुपूव्यश्वतसम्तासां क्षेपात-प्रक्षेपात् । इदमुक्तं भवति--पूर्वोक्तशताद् मिश्रगुणस्थानव्यवच्छिन्नेका मिश्रप्रकृतिरपनीयते, शेषा नवनवतिः, तत्र सम्यक्त्वानुपूर्वीचतुष्कलक्षणं प्रकृतिपञ्चकं क्षिप्यते जातं चतुःशतम्, यतः सम्यक्त्वमत्र गुणे उदयत एव, तथाऽविरतसम्यग्दृशां यथास्वं चतस्रोऽप्यानुपूर्व्य इति । "वियकसाय" त्ति द्वितीयकषायाः-अप्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोभाः॥१५॥
मण तिरिणपुब्धि विउवऽढ दुहग अणाइजदुग सतरछेओ।
सगसीइ देसि तिरिगहआउ निउज्जोय तिकसाया ॥ १६ ॥ "मणुतिरिणुपुचि" त्ति आनुपूर्वीशब्दस्य प्रत्येकं योजनाद् मनुजानुपूर्वी तिर्यगानुपूर्वी "विउवट" ति वैक्रियाष्टकं-वैक्रियशरीरवैक्रियाङ्गोपाङ्गदेवगतिदेवानुपूर्वीदेवायुर्नरकगतिनरकानुपूर्वीनरकायुलक्षणं दुर्भगम् अनादेयद्विकम्-अनादेयाऽयशकीर्तिरूपम् इत्येतासां सप्तदशप्रकृतीनामविरतसम्यग्दृष्टावुदयं प्रतीत्य च्छेदो भवति । तत इमाः सप्तदश प्रकृतयः पूर्वोक्तचतुःशताद् अपनीयन्ते शेषा "सगसीइ देसि" ति सप्ताशीतिः “देसि" त्ति देशविरते उदये भवति । इदमत्र तात्पर्यम्--द्वितीयकषायोदये हि देशविरतेलाभ आगमे निषिद्धः; यदागमः
बीयकसायाणुदए, अप्पचक्खाणनामधिजाणं ।
सम्मइंसणलंभं विरयाविरयं न उ लहंति ।। ( आ० नि० गा० १०६ ) नापि पूर्वप्रतिपनदेशविरत्यादेर्जीवस्य तदुदयसम्भवस्तेनोत्तरेषु तदुदयाभावः; मनुजानुपूर्वीतिर्यगानुपूर्योस्तु परभवादिसमयेषु विष्वपान्तरालगतावुदयसम्भवः, स/च यथायोगं मनुजतिरश्चां वर्षाष्टकाद् उपरिष्टात् सम्भविषु देशविरत्यादिगुणस्थानेषु न सम्भवतिः देवत्रिकं
१ न सम्यग्मिश्रः करोति कालम् ॥ २ द्वितीयकषायाणामुदये अप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतं न तु लभन्ते ।।