________________
१२-१५ ]
कर्मस्वरूयो द्वितीयः कर्मप्रन्थः ।
पुनर्मिथ्यादृष्टावेव तेनैतासां पञ्चप्रकृतीनां मिथ्यादृष्टा यस्यान्तः । तत इदं प्रकृतिपञ्चकं पूर्वोक्तसप्तदशशताद् अपनीयते शेषं द्वादशशतं सास्वादने उदयं प्रतीत्य भवति, नरकानुपूर्व्यपनयने चैकादशशतं भवतीत्येतदेवाह - - " सासणे इगारसयं निरयाणुपुत्रिणुदय" त्ति सास्वादन एकादशशतमुदये भवति, नरकानुपूर्व्यनुदयात्, नरकानुपूर्व्या उदयो हि नरके क्रेण गच्छतो जीवस्य भवति, न च सास्वादनो नरकं गच्छति ।
यदुक्तं बृहत्कर्मस्तव भाष्ये---
९९
नरापुव्वियाए, सासणसम्मम्मि होइ न हु उदओ ।
नरयम्मि जं न गच्छइ, अवणिज्जइ तेण सा तस्स || ( गा०८ )
ततो नरकानुपूर्वी मिथ्यादृष्टिव्यवच्छिन्नसूक्ष्मत्रिकातपमिथ्यात्वलक्षणप्रकृतिपञ्चकं च सप्तदशशताद् अपनीयते शेषं सासादने एकादशशतं भवतीति । " अणथावरइग विगलअंतु " त्ति " अण" त्ति अनन्तानुबन्धिनश्थत्वारः क्रोधमानमाया लोभाः स्थावरनाम “इग" त्ति एकेन्द्रियजातिः / विकलाः-पञ्चेन्द्रियजात्यपेक्षयाऽसम्पूर्णा द्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातय इत्यर्थः इत्येतासां नवानां प्रकृतीनां सास्वादनेऽन्त उदयमाश्रित्य भवति । इयमंत्र भावना - अनन्तानुबन्धिनामुदये हि सम्यक्त्वलाभ एव नं भवति ।
दाहुः श्रीभद्रबाहु स्वामिपादा:
-
* पढमिल्लुयाण उदए, नियमा संजोयणाकसायाणं ।
सम्म सलभं भवसिद्धीया वि न लहंति ।। ( आ० नि० गा० १०८ ) नापि सम्यग्मिथ्यात्वं कोऽप्यनन्तानुबन्ध्युदये गच्छति, योऽपि पूर्वप्रतिपन्नसम्यक्त्वोsनन्तानुबन्धिनामुदयं करोति सोऽपि सास्वादन एव भवतीत्युत्तरेष्वासामुदयाभावः । स्थावरैकेन्द्रियजातिविकलेन्द्रियजातयस्तु यथास्त्र मेकेन्द्रियविकलेन्द्रियवेद्या एव । उत्तरगुणस्थानानि तु संज्ञिपञ्चेन्द्रिय एव प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि पञ्चेन्द्रियेष्वेव गच्छतीत्युत्तरेष्वासामुदयाभाव इति ।। १४ ।।
मी
सयमणुपुवीणुदया मीसोदएण मीसंतो ।
चउसयमजए सम्माणुपुव्विखेवा बियकसाया ॥ १५॥
'मिश्री' सम्यग्मिथ्यादृष्टौ शतमुदये भवति, कथम् ? इत्याह- “अणुपुत्र्वीदय"त्ति, इहानुपूर्वीशब्देन तिर्यगानुपूर्वीमनुजानुपूर्वीदेवानुपूर्वीलक्षणा आनुपूर्वीत्रयी गृह्यते तस्या अनुद
१ ० र्व्यु द० ख० ग० || २ नरकानुपूर्व्याः सासादनसम्यक्त्वे भवति न ह्युदयः । नरकं यन्न गच्छति अपनीयते तेन सातस्य || ३ प्रथमानामुदये नियमात् संयोजनाकषायाणाम् । सम्यग्दर्शनलाभं मवसिद्धिकाअपि न लभन्ते ॥