________________
देवेन्द्रसूरिविरचितस्वोपज्ञटी कोपेतः
बन्धाधिकारमेनं विवृण्वता यन्मयाऽर्जितं पुण्यम् । इह कर्मबन्धमुक्तो, लोकः सर्वोऽपि तेनास्तु ॥ साम्प्रतमुदयस्य प्रायस्तत्समानत्वाद् उदीरणायाश्च लक्षणकथनपूर्वकं कस्मिन् गुणस्थाने कियत्यः प्रकृतयस्तस्य भगवतः क्षीणाः ? इत्येतन्निर्दिदिक्षुराह --
{८ ]
उदओ विवागवेणमुदोरण अपत्ति इह दुवीससयं । सतरसयं मिच्छे मीससम्म आहारजिणऽणुदया ॥ १३ ॥
serke
इह कर्मपुद्गलानां यथास्वस्थितिबद्धानामुदयसमयप्राप्तानां यद् विपाकेन - अनुभवनेन वेदनं स उदय उच्यते । "उदीरण अपत्ति" ति कर्मपुद्गलानां यथास्वस्थितिबद्धानां यद् अप्राप्तकालं वेदनमुदीरणा भण्यते । " इह" त्ति 'इह' उदये उदीरणायां च ' ' दुबीससयं" ति 'द्विविंशशतं ' द्वाभ्यामधिकं विंशं शतं द्विविंशशतं मयूरव्यंसकादित्वात् समासः, तत् सामान्यतोऽधिक्रियत इति शेषः । सप्तदशशतं "मिच्छे" त्ति मिथ्यादृष्टिगुणस्थाने उदये भवति । कथम् ? इत्याह-- "मीससम्म आहारजिणगुदय" त्ति, मिश्रं च "सम्म" त्ति सम्यक्त्वं च " आहार" नि इहाSSहारकशब्देन सर्वत्राऽऽहारकशरीराऽऽहारकाङ्गोपाङ्गलक्षणमाहारकद्विकं गृह्यते तत आहारकं च "जिण " ति जिननाम च मिश्रसम्यक्त्वाहारजिनास्तेषामनुदयात् । इदमत्र हृदयम् - मिश्रोदयस्तावत् सम्यग्मिथ्यादृष्टिगुणस्थान एव भवति, सम्यक्त्वोदयस्त्वविरतसम्यग्दृष्ट्यादौ, आहारकद्विकोदयः प्रमत्तादौ जिननामोदयः सयोगिकेवल्यादौ भवति । तत इदं प्रकृतिपञ्चकं ' द्वाविंशतिशताद् अपनीयते ततो / मिध्यादृष्टिगुणस्थाने सप्तदशशतं भवतीति ॥ १३ ॥
सुमतिगायवमिच्छं, मिच्छतं सासणे इगारसयं ।
निरयाणुपुव्विणुदया, अणथावरइगविगलअंतो ॥ १४ ॥
गाथा
+
सूक्ष्मत्रिकं च- सूक्ष्माऽपर्याप्तसाधारणरूपम् आतपं च मिथ्यात्वं च सूक्ष्मत्रिकातपमिध्यात्वं मिथ्यात्वे - मिथ्यादृष्टावन्तो यस्य तद् मिथ्यात्वान्तम् एतत्प्रकृतिपश्चकस्य मिध्यात्वेऽन्तो भवतीत्यर्थः । अयमत्राशयः - सूक्ष्मनाम्न उदयः सूक्ष्मैकेन्द्रियेषु, अपर्याप्तनाम्नस्तु सर्वे - वयपर्याप्तकेषु साधारणनाम्नोऽनन्तवनस्पतिषु, आतपनामोदयस्तु बादरपृथिवीकायिकेष्वेवः न चैतेषु स्थितो जीवः सास्वादनादित्वं लभते नापि पूर्वप्रतिपन्नस्तेषूत्पद्यते सास्वादनस्तु यद्यपि बादरपर्याप्तै केन्द्रियेषूत्पद्यते तथापि न तस्यातपनामोदयः, तत्रोत्पन्नमात्रस्यासमाप्तशरीरस्यैव सास्वादनत्ववमनात् समाप्त े च शरीरे तत्राऽऽतपनामोदयो भवति, मिथ्यात्वोदयः
१० केषु च; क० घ० ॥
"