________________
६-१० ]
कस्तो द्वितीयः कर्मग्रन्थः ।
सप्त वा व्यवच्छिद्यन्ते । कथम् ? इत्याह--- '' नेइ सुराउं जया निट्ठ” ति यदा कश्चित् प्रमत्तः सन् सुरायुर्वन्धुमारभते निष्ठां च नयति सुरायुर्वन्धं समापयतीत्यर्थः तदा पूर्वोक्ताः षट् सुरायुः सहिताः सप्त व्यवच्छिद्यन्त इति ॥ ७ ॥
गुणसडि अप्पमत्ते, सुराउबंधं तु जड़ इहागच्छे | अन्नह अट्ठावन्ना, जं आहारगदुगं बंधे ॥८॥ "गुण" ति एकोनषष्टिरप्रमते बध्यत इति शेषः । कथम् १ इत्याह- ' - 'सुरायुर्बघ्नन् ' देवायुर्वन्धं कुर्वन् यदि चेद् 'इह' अप्रमत्तगुणस्थान आगच्छेत् । इयमत्र भावना - सुरायुर्वन्धं हि प्रमत्त एवारभते नाऽप्रमत्तादिः, तस्यातिविशुद्धत्वात्, आयुष्कस्य तु घोलनापरिणामेनैव बन्धनात् परं सुरायुर्बध्नन् प्रमत्ते कश्चित् सावशेषे सुरायुर्बन्धेऽप्रमत्तेऽप्यगच्छेत्, अत्र च सावशेषं सुरायुर्निष्ठां नयति तत एकोनषष्ठिरप्रमत्ते भवति " "देवाउयं च इक्कं, नायव्वं अप्पमत्तम्मि । ” इति वचनात् । "अन्नह अट्ठावन्न" त्ति अन्यथा यदि सुरायुर्बन्धः प्रमत्तेनारब्धः प्रमत्तेनैव निष्ठां नीतस्ततोऽष्टपञ्चाशदप्रमत्ते भवतीति ।
६५
ननु यदि पूर्वोक्तत्रिषष्टेः शोकाऽरत्यस्थिरद्विकाऽयशोऽसातलक्षणं प्रकृतिषट्कमपनीयते तर्हि सा सप्तपञ्चाशद् भवति, अथ सुरायुः सहितं पूर्वोक्तप्रकृतिषट्कमपनीयते तर्हि षट्पञ्चाशत्, ततः कथमुक्तमेको पष्टिरष्टपञ्चाशद्वाऽप्रमत्ते ? इत्याशङ्कयाह – “जं आहारगदुगं बंधे' त्ति 'यद्' यस्मात् कारणाद् आहारकद्विकं बन्धे भवतीति शेषः । अयमत्राशयः - अप्रमत्तयतिसम्बन्धिना संयमविशेषेणाऽऽहारकद्विकं बध्यते तच्चेह लभ्यत इति पूर्वापनीतमप्यत्र क्षिप्यते, ततः षट्पञ्चा शद् आहारकद्विकक्षेपेऽष्टापञ्चाशद् भवति, सप्तपञ्चाशत् पुनराहारकद्विकक्षेप एकोनषष्टिरिति || ८ || अवन्न अपुव्वामि, निद्ददुगंतो छपन्न पणभागे ।
सुरदुग पणिदि सुखगह, तसनव उरलविणु तणुवंगा ||६|| समचउर निमिण जिण बन्न अगुरुलघुचउ छलंसि तीसंतो । चरमे छवीसबंधो, हासरईकुच्छ भयभेओ ॥ १० ॥
"6
'अडवन्न अपुव्वाइमि'' त्ति । इह किलाsपूर्वकरणाद्वायाः सप्त भागाः क्रियन्ते । तत्राऽपूर्वस्यअपूर्वकरणस्यादिमे-प्रथमे सप्तभागोऽष्टपञ्चाशत् पूर्वोक्ता भवति । तत्र चाद्ये सप्तभागे निद्राद्विकस्य-निद्राप्रचलालक्षणस्यान्तो भवति, अत्र बध्यते नोत्तरत्रापि, उत्तरत्र तद्बन्धाध्यवसायस्थानाभावात् उत्तरेष्वप्ययमेव हेतुरनुसरणीयः । ततः परं षट्पञ्चाशद् भवति । कथम् ? इत्याह--' 'पण भागि" ति पञ्चानां भागानां समाहारः पञ्चभागं तस्मिन् पञ्चभागे, पञ्चसु भागे
१ देवायुष्कं चैकं ज्ञातव्यमप्रमत्ते ॥