________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
युवायुर्द्वयबन्धे सति सप्तसप्ततिर्भवति । एतदुक्तं भवति – तीर्थकरनाम तावत् सम्यक्त्वप्रत्ययादेवात्र बन्धमायाति ये च तिर्यग्मनुष्या अविरतसम्यग्टशस्ते देवायुर्वघ्नन्ति, ये तु नारदेवास्ते मनुष्या' युर्वघ्नन्ति ततोऽत्रेयं प्रकृतित्रयी समधिका लभ्यते, सा च पूर्वोक्तायां चतुःसप्ततौ क्षिप्यते जाता सप्तसप्ततिरिति । "दइर" चि वज्रमनाराचसंहननं "नरतिय" / ति नरत्रिकं - नरगतिनरानुपूर्वीनरायुर्लक्षणं "वियकसाय" त्ति द्वितीयकपायाः - अप्रत्याख्यानावरणाः क्रोधमानमायालोभाः “उरलदुग" त्ति औदारिकद्विकम् - औदारिकशरीरौदारिकाङ्गोपाङ्गलक्षणमित्येतासां दशप्रकृतीनामविरतसम्यग्दृष्टावन्तो भवति एता अत्र बध्यन्ते नोत्तरत्रेत्यर्थः । अयमत्राभिप्रायः - द्वितीयकपायांस्तावत् तदुदयाभावान्न बध्नाति देशविरतादिः कपायाः ह्यनन्तानुबन्धिवर्जा वेद्यमाना एव बध्यन्ते, "" जे वेएड़ ते बंध" इति वचनात् ; अनन्तानुबन्धिनस्तु चतुर्विंशतिसत्कर्माऽनन्तवियोजको मिथ्यात्वं गतो बन्धावलिकामात्रं कालमनुदितान् बध्नाति ।
६४
यदाहुः सप्ततिकाटीकायां मोहनीयचतुर्विंशतिकावसरे श्रीमलयगिरिपादा:इह सम्यष्टिना सता केनचित् प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः, एतावतैव स विश्रान्तो न मिथ्यात्वादिक्षयाय उद्युक्तवान् तथाविधसामग्रयभावात् । ततः कालान्तरेण मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति । ततो बन्धावलिकां यावत् नाद्याप्यतिक्रामति तावत् तेषामुदयं विना बन्ध इति । ( पत्र १३५ - २ )
,
नरत्रिकं पुनरेकान्तेन मनुष्यवेद्यम्, औदारिकद्विकं वज्रऋषभनाराचसंहननं च मनुष्यतिर्यगेकान्तवेद्यम्, देशविरतादिषु देवगतिवेद्यमेव बध्नाति नान्यत् तेनासां दशप्रकृतीनामविरतसम्यग्दृष्टिगुणस्थानेऽन्तः । तत एतत् प्रकृतिदशकं पूर्वोक्तसप्तसप्ततेरपनीयते, ततः " देसे सत्तट्ठि" त्ति 'देशे' देशविरतगुणस्थाने सप्तषष्टिर्वध्यते "तियकसायंतु" त्ति तृतीयकपायाणांप्रत्याख्यानावरणक्रोधमान मायालोभान देशविरतेऽन्तः, तदुत्तरेषु तेषामुदयाभावाद् अनुदितानां चाबन्धात् " " जे वेय ते बंध" इति वचनाद् इति भावः । एतच्च प्रकृतिचतुष्कं पूर्वोक्तसप्तषष्टेरपनीयते || ६ || ततः
तेवsि पत्ते सोग अरइ अथिरदुग अजस अस्सायं । बुच्छि छच्च सत्त व, नेह सुराउं जया निः ॥ ७ ॥
"
"तेवडि पमत्ति" त्ति त्रिपष्टिः प्रमत्ते बध्यते । शोकः अरतिः । ' अथिर दुग" त्ति अस्थिरद्विकम् - अस्थिराऽशुभरूपम् "अजस" त्ति अयशःकीर्तिनाम असातमित्येताः पट् प्रकृतयः प्रमत्ते "बुच्छिज" त्ति प्राकृतत्वादादेशस्य व्यवच्छिद्यन्ते -क्षीयन्ते बन्धमाश्रित्येति भावः । यद्वा
१०युर्निर्वर्तयन्ति, क० ख० ।। २ - ३ यान् वेदयते तान् बध्नाति ४ ॥ तुष्टयं ख० ग० ॥