________________
१३
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । तीति सप्तदशशतात पूर्वोक्ताद् एतदपगमे शेषमेकोत्त प्रकृतिशतमेवाविरत्यादिहेतुभिः सास्वादने बन्धमायाति, अत एवाह-"इगहियसय सामणि" ति एकाधिकशतं सास्वादने बध्यते । "इगहियसय" इत्यत्र विभक्तिलोपः प्राकृतत्वात् । एवमन्यत्रापि विभक्तिलोपः प्राकृतलक्षणवशादव सेयः । “तिस्थिीणदुहगतिगं" ति । त्रिकशब्दः प्रत्येकं सम्बध्यते, तिर्यकत्रिक तिर्यग्गतितिर्यगानुपूर्वीतिर्यगायुर्लक्षण 'स्त्यानद्वित्रिक निद्रानिद्राप्रचलाप्रचलास्त्यानद्धिस्वरूपं 'दुर्भगत्रिकं, दुर्भगदुःस्वाऽनादेयम्वरूपमिति ॥ ४ ॥
अणमज्झागिहसंघयणचउ निउज्जोयकुखगइथि त्ति । पणवीसंतो मीसे, चउसयरि दुआउयअबंधा ॥५॥
चतुःशब्दस्य प्रत्येक योजनात् "अण" त्ति अनन्तानुवन्धिचतुष्कम् अनन्तानुवन्धिक्रोधमानमायालोभाख्यम् मध्या:-मध्यमा आधन्तवर्जा आकृतयः--संस्थानानि मध्याकृतयः तासां चतुक-न्यग्रोधपरिमण्डलसंस्थानं सादिसंस्थानं वामनसंस्थानं कुब्जसंस्थानमिति, तथा काकाक्षिगोलकन्यायात् मध्यशब्दस्यात्रापि योगः, ततो मध्यानि-मध्यमानि प्रथमान्तिमवानि संहननानि अस्थिनिचयात्मकानि तेषां चतुष्कम्-ऋषभनाराचसंहननं नाराचसंहननम् अर्धनाराचनंहनन कीलिकासंहननमिति, "निउ" त्ति नीचैर्गोत्रम् , उद्योतम् , कु-कुत्सिताsप्रशस्ता खगति:--विहायोगतिः कुखगतिः अप्रशस्तविहायोगतिरित्यर्थः, "त्थि" ति स्त्रीवेद इत्येतासां पञ्चविंशतिप्रकृतीनां सास्वादनेऽन्तः, अत्र बध्यन्ते नोत्तरत्रेत्यर्थः, यतोऽनन्तानुबन्धिप्रत्ययो ह्यासां बन्धः, स चोत्तरत्र नास्तीति । ततश्चैकाधिकशतात् पञ्चविंशत्यपगमे “मीसि" त्ति "मिश्रे सम्यग्मिथ्यादृष्टिगुणस्थाने षट्सप्ततिबन्धे भवति । ततोऽपि "दुआउयअबंध" ति द्वयोमनुष्यायुर्देवायुषोरबन्धो द्वयायुरबन्धस्तस्माद् द्वयायुरबन्धादिति हेतोश्चतुःसप्ततिभवति । इदमुक्तं भवति--इह नारकतिर्यगायुषी यथासङ्ख्य मिथ्यादृष्टिसास्वादनगुणस्थानयोव्यवच्छिन्ने, शेषं तु मनुप्यायुर्देवायुई यमवतिष्ठते तदपि मिश्रो न बजाति, मिश्रस्य सर्वथाऽऽयुर्वन्धप्रतिषेधात् । उक्तं च
. सम्मामिच्छट्ठिी, आउअब पि न करेइ । त्ति । ततः पट्सप्ततेरायुद्ध यापगमे चतुःसप्ततिर्भवतीति ॥ ५ ॥
सम्मे सगसयरि जिणाउपाधि वदर नरतिग पियकसाया।
उरलदुगंलो देसे, सत्तही तिअकसायंती ॥६॥ ___ "सम्मि' त्ति अविरतसम्यग्दृष्टिगुणस्थाने "सगसयरि" ति सप्तसप्ततिप्रकृतीनां बन्धो भवति । कथम् ? इति चेद् उच्यते-पूर्वोक्तैव चतुःसप्ततिः “जिणाउबंधि" ति तीर्थकरनाममनुष्या
१०८कं मध्याकृतिचतुष्क-न्य० ख० ॥२०ष्कं संहननचतुष्कम्-ऋ० क० ख० ग० घ० ० ॥ ३ सम्यग्मिथ्यादृष्टिरायुर्वन्धमपि न करोति ।।