________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ माथा
पञ्चानामदारिकादिसङ्घातनानां च पञ्चानां यथास्वमौदारिकादिषु पञ्चसु शरीरेष्वन्तर्भावः । afratavari यथासङ्ख्यं पञ्चद्विपञ्चाष्टभेदानां तद्भेदतां विशतिमपनीय तेषामेव चतुर्णाममित्रानां ग्रहणे षोडशकमिदं बन्धनातनसहितमष्टचत्वारिंशताद् अपनीयते, शेषेण द्वाविंशेन शतेनाधिकारः । बन्धे तु सम्यग्मिथ्यात्वसम्यक्त्वयो: सङ्क्रमेणैव निष्पाद्यमानत्वाद् बन्धन सम्भवतीति तयोर्द्वाविंशतिशताद् अवनीतयोः शेषेण विंशत्युत्तरशतेनाऽधिकार इति प्रकृतिसमुत्कीर्तना कृता । प्रकृत्यर्थः स्वोपज्ञकर्मविपाकटीकायां विस्तरेण निरूपितस्तत yataar इत्यलं प्रसङ्गेन । प्रकुरी प्रस्तुमः । तत्र वन्धे सामान्येन विंशं शतं भवतीति प्रकृतम् । तदेव च विंशं शर्त 'तीर्थकराहारकद्विकवर्ज' तीर्थकराहारकद्विकरहितं सत् "मिच्छम्मि” त्ति भीमसेनो भीम इत्यादिवत् पदवाच्यस्यार्थस्य पदैकदेशेनाऽप्यभिधानदर्शनात् मिथ्यात्वे मिथ्यादृष्टिगुणस्थान इत्यर्थः । एवमुत्तरेष्वपि पदवाच्येषु पदैकदेशप्रयोगो द्रष्टव्यः । " aarti" ति तदशाधिकं शतं सप्तदशशतं बन्धे भवतीति । अयमत्राभिप्रायः - तीर्थंकरनाम तावत् सम्यक्त्वगुणनिमित्तमेव बध्यते, आहारकशरीराऽऽहारकाङ्गोपाङ्गलक्षणमाहारकद्विकं त्वमतिसम्बन्धिना संयमेनैव । यदुक्तं श्रीशिवशर्मसूरिपादैः शलके
"सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं । ( गा० ४४ ) इति ।
,
मिथ्यादृष्टिगुणस्थाने एतत्प्रकृतित्रयवर्जनं कृतम् शेषं पुनः सप्तदशशतं मिथ्यात्वादिभिर्हेतुभिर्वव्यत इति मिध्यादृष्टिगुणस्थाने तद्बन्ध इति ॥ ३ ॥ नन्वेता मिध्यादृष्टिप्रायोग्याः सप्तदशशतसङ्ख्याः सर्वा अपि प्रकृतय उत्तरगुणस्थानेषु गच्छन्त्युत काश्विदेव १ इत्याशङ्कयाहनरपतिंग जाइयावरच हुंडायवळिवट्टन पुमिच्छं ।
सोलतो इगहियलय, सासणि तिरिथोणदुहगतिगं ॥ ४ ॥
විය
'नरकत्रिक' नरकगतिनरकानुपूर्वीनरकायुर्लक्षणम् "जाइयावरच उ" ति चतुःशब्दस्य प्रत्येकमभिसम्बन्धाद् 'जातिचतुष्कम्' एकेन्द्रियजातिद्वीन्द्रिय जातित्रीन्द्रिय जातिचतुरिन्द्रियजातिस्वरूपं ‘स्थावरचतुष्कं' स्थावरसूक्ष्माऽपर्याप्तसाधारणलक्षणं, हुण्डम् आतपं वेदपृष्ट' "नपु" ति नपुंसकवेदः "मिच्छे” ति मिध्यात्वमित्येतासां "सोलंतु" त्ति पोडेशानां प्रकृतीनां मिथ्यादृष्टिगुणस्थाने 'तत्र भाव उत्तरत्राभावः' इत्येवंलक्षणोऽन्तो विनाशः क्षयो भेदो व्यवच्छेद उच्छेद इति पर्यायाः । इयमत्र भावना - - एता हि षोडश प्रकृतयो मिथ्यादृष्टिगुणस्थान एव बन्धमायान्ति मिथ्यात्वप्रत्ययत्वादेतासाम् ; नोत्तरत्र सास्वादनादिषु मिथ्यात्वाभावादेव । यत एताः प्रायो नारकै केन्द्रियविकलेन्द्रिययोग्यत्वाद् अत्यन्ताऽशुभत्वाच्च मिथ्यादृष्टिरेव बध्ना
१ सम्यक्त्वगुणनिमित्तं तीर्थकरं संयमेनाहारम् ॥