________________
२-३ ]
कमस्तवाख्यो द्वितीयः कर्मग्रन्थः । ख्यानावरणः क्रोधो मानो माया लोभः ४ प्रत्याख्यानावरणः क्रोधो मानो माया लोभः ४ संज्वलनः क्रोधो मानो माया लोभः ४ इति षोडश कषायाः, स्त्री पुमान् नपुसकमिति वेदत्रयम् , हास्यं रतिः अरतिः शोको भयं जुगुप्सेति हास्यपट्कम् , मिलितं नव नोकषायाः । आयुश्चतुर्धा--नरकायुः तिर्यगायुः मनुष्यायुः देवायुरिति । अथ नामकम द्विचत्वारिंशद्विधम् , तद्यथा--चतुर्दश पिण्डप्रकृतयः अष्टौ प्रत्येकप्रकृतयः त्रसदशकं स्थावरदशकं चेति । तत्र पिण्डप्रकृतय इमाः--गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम बन्धननाम सङ्घातननाम संहनन नाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम आनुपूर्वीनाम विहायोगतिनामेति । आसां भेदा दर्श्यन्ते-नरकतिर्यङ्मनुष्यदेवगतिनामभेदात् चतुर्धा गतिनाम, एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामेति पञ्चधा जातिनाम, औदारिकवैक्रियाऽऽहारकतैजसकार्मणशरीरनामेति पञ्चधा शरीरनाम, औदारिकाङ्गोपाङ्ग वैक्रियाङ्गोपाङ्गम् आहारकाङ्गो पाङ्गनामेति त्रिधाऽङ्गोपाङ्गनाम, बन्धननाम पञ्चधा औदारिकवन्धनादि शरीग्वत् एवं सङ्घातनमपि, संहनननाम षडभेदम्--वज्रऋषभनाराचम् ऋषभनाराचं नाराचम् अर्धनाराचं कीलिका सेवातं चेति, संस्थाननाम षड्विधं-समचतुरस्र न्यग्रोधपरिमण्डलं सादि वामनं कुब्ज हुण्डं चेति, वर्णनाम पञ्चधा-कृष्णं नीलं लोहितं हारिद्रं शुक्लं चेति, गन्धनाम द्विधा--सुरभिगन्धनाम, दुरभिगन्धनामेति, रसनाम पश्चधा-तिक्तं कटुकं कषायम् अम्लं मधुरं चेति, स्पर्शनाम अष्टधा--कर्कशं मृदु लघु गुरु शीतम् उष्णं स्निग्धं रूक्षं च, आनूपूर्वी चतुर्धा--नरकानुपूर्वी तिर्यगानुपूर्वी मनुष्यानुपूर्वी देवानुपूर्जीति, विहायोगतिर्द्विधा-प्रशस्तविहायोगतिः अप्रशस्तविहायोगतिरिति आसां चतुर्दशपिण्डप्रकृतीनामुत्तरभेदा अमी पञ्चषष्टिः । प्रत्येकप्रकृतयस्त्विमा:-पराघातनाम उपघातनाम उच्छ्वासनाम आतपनाम उद्योतनाम अगुरुलघुनाम तीर्थकरनाम निर्माणनामेति । सदशकमिदम्--वसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम सुस्वरनाम आदेयनाम यश-कीर्तिनामेति । स्थावरदशकं पुनरिदम्-स्थावरनाम सूक्ष्मनाम अपर्याप्तनाम साधारणनाम अस्थिरनाम अशुभनाम दुर्भगनाम दुःस्वरनाम अनादेयनाम अयशःकीर्तिनामेति । पिण्डप्रकृत्युत्तरभेदाः पञ्चषष्टिः प्रत्येकप्रकृतयोऽष्टौ त्रसदशकं स्थावरदशकं च सर्वमीलने त्रिनवतिः । गोत्रं द्विधा-उच्चैर्गोत्रं नीचे गोत्रं च । अन्तरायं पञ्चधा-दानान्तरायं लिाभान्तरायं भोगान्तरायम् उपभोगान्तरायं वीर्यान्तरायं चेति । एवं च कृत्वा ज्ञानावरणे कर्मप्रकृतयः पञ्च ५ दर्शनावरणे नव वेदनीये द्वे २ मोहनीयेऽष्टाविंशतिः २८ आयुषि चतस्रः ४ नाम्नि त्रिनवतिः ६३ गोत्रे द्वे २ अन्तराये पञ्च ५ सर्वपिण्डेऽटाचत्वारिंशं शतं भवति, तेन च सत्तायामधिकारः । उदयोदीरणयोः पुनरौदारिकादिबन्धनानां
१०पाङ्गमिति ख० ग०॥२ भिनाम असुरभिना०क० ख० ग० ।।