________________
देवेन्द्रसूरिविरचितस्वोपाटीकोपेतः
[ गाथा 'हस्सक्खराई मज्झेण जेण कालेण पंच भन्नति । - अच्छइ सेलेसिगओ, तत्तियमेत्तं तओ कालं ॥ (विशेषा० गा० ३०६८) तणुरोहारंभाओ. झायइ सुहुमकिरियानियट्टि सो। वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालम्मि ॥ ( विशेषा० गा० ३०६९) तदसंखेजगुणाए, गुणसेढीइ रइयं पुरा कम्मं । समए समए 'खविउं, कमेण सव्वं तहिं कम्मं ॥ (विशेषा० गा० ३०८२) उजुसेढीपडिबन्नो, समयपएसंतरं अफुसमाणो ।
एगसमएण सिज्झइ, अह सागरोवउत्तो सो ॥ (विशेषा० गा० ३०८८) इति तस्य गुणस्थानमयोगिकेवलिगुणस्थानम् १४ इति ॥ २ ॥
व्याख्यातानि सभावार्थानि चतुर्दशापि गुणस्थानानीति । अथ यथतेष्वेव गुणस्थानेषु भगवता बन्धमुदयमुदीरणां सत्तां चाऽऽश्रित्य कर्माणि क्षपितानि तथा बिभणिषुः प्रथमं तावद् बन्धमाश्रित्य व गुणस्थाने कियत्यः कर्मप्रकृतयो व्यवच्छिन्नाः ? इत्येतद् बन्धलक्षणकथनपूर्वकं प्रचिकटयिषुराह
अभिनवकम्मरगहणं, बंधो ओहेण तत्थ वीस सयं ।
तित्थयराहारगदुगवजं मिच्छम्मि सतरसयं ॥३॥ मिथ्यात्वादिभिर्हेतुभिरभिनवस्य-नूतनस्य कर्मणः-ज्ञानावरणादग्रहणम्-उपादानं बन्ध इत्युच्यते । 'ओपेन' सामान्येनैक किश्चिद्गुणस्थानकमनाश्रित्येत्यर्थः । 'तत्थ" त्ति तत्र बन्धे 'विशं शतं' विंशत्युत्तरं शतं कर्मप्रकृतीनां भवतीति शेषः । तथाहि-मतिज्ञानावरणं श्रुतज्ञानावरणम् अवधिज्ञानावरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणमिति पञ्चधा झानावरणम् । निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानद्धिः चक्षुर्दर्शनावरणम् अचक्षुर्दर्शनावरणम् अवधिदर्शनावरणं केवलदर्शनावरणमिति नवविधं दर्शनावरणम् । वेदनीयं द्विधासातवेदनीयम् असातवेदनीयं च । मोहनीयमष्टाविंशतिभेदम् , तद्यथा--मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वमिति दर्शनत्रिकम् , अनन्तानुबन्धी क्रोधो मानो माया लोभः ४ अप्रत्या
१ हस्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते । आस्ते शैलेशीगतः तावन्मानं सकः कालम् । तनुरोधारम्माद् ध्यायति सूक्ष्म क्रियानिवृत्ति सः । व्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले ॥ तदसङ्घय यगुणायां गुणश्रेणी रचितं पुरा कर्म । समये समये क्षपयित्वा क्रमेण सर्व तत्र कर्म ॥ ऋजुश्रेणिप्रतिपन्नः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति अथ साकारोपयुक्तः सः ॥ २ खवियं कमसो सेलेसिकालेणं ।। इति भाध्ये पाठः।।