________________
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । सङ्ख्य यगुणया श्रेण्या आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणम् । तच्चासौ प्रविष्टोऽयोगी स चाली केवली च अयोगिकेवली । अयं च शैलेशीकरणचरमसमयानन्तरमुच्छिनचतुर्विधकर्मबन्धनत्याद् अष्टमृत्तिकालेपलिप्ताऽधोनिमग्नक माऽपनीतमृत्तिकालेपजलतलमर्यादो
गामितथाविधाऽलाबुरद् ऊर्व लोकान्ते गच्छति, न परतोऽपि, मत्स्यस्य जलकल्पगत्युपष्टम्भिधांस्तिकायाऽभावात् । स चोर गच्छन् ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावत एवं प्रदेशानू मप्यत्र गाहमानो विवक्षितसमयाच समयान्तरमसंस्पृशन गच्छति ।
तदुक्तमावश्यकचूर्णी'जत्तिए जीवो अवगाढो तारइयाए ओगाहणाए उ उज्जुगं गच्छइ न वंक, बीयं च समयं न फुसइ ॥ ( पूर्वाद्ध पत्र ५८२ ) इति ।। दुःपमान्धकारनिमग्नजिनप्रवचनप्रदीपप्रतिमाः श्रीजिन भद्रगणिपूज्या अप्यागुः--
पजत्तमित्तसन्निस्म जत्तियाई जहन्नजोगिस्स । हुंति मणोदव्वाई, तव्यावारो य जम्मत्तो ।। ( विशेषा० गा० ३०५९). तदसंखगुणविहीणं, समए समए निरंभमाणो सो । मणसो सव्यनिरोह, कुणइ असंखिअसमएहिं । ( विशेषा० गा० ३०६० )
पजत्तमित्तबिंदियजहन्नवइजोगपजया जे उ । तदसंखगुणविहीणे, समए समए निरुभंतो ।। (विशे० गा०३०६१) सब्बबइजोगरोह, संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणयस्स पढमसमओववनस्स ॥ (विशेषा० गा० ३०६२) जो किर जहन्नजोगो, तदसंखिजगुणहीणमिक्केक्के । समए निरु भमाणो, देहतिभागं च मुचंतो ।। (विशेषा० गा० ३०६३) रु भइ स कायजोगं, संखाईएहिं चेव समएहिं ।
तो कयजोगनिरोहो, सेलेसीभावणामेइ ।। (विशेषा० गा० ३०६४) १ यावत्यां जीवोऽत्रगाढस्तावत्याऽवगाहनया ऊर्ध्वमृजुकं गच्छति न वक्रम , द्वितीयं च समयं न स्पृशति ॥२ पर्याप्तमात्रसंझिनो यान्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तव्यापारश्च यन्मात्रः ॥ त दसङ्ख्यगुणविहीनं समये समये निरुन्धानः सः । मनसः सर्वनिरोधं करोत्यसङ्खये यसमयैः ॥ ३ पर्याप्तमात्रद्वीन्द्रिय जघन्यवचोयोगप यया ये तु । तदसञ्जयगुणविहीनान समये समये निसन्धानः ।। सर्ववचोयोगरोधं सहयातीतः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोपपन्नस्य ॥ यः किल जघन्ययोगस्तदसङ्घय यगुणहीनमेकैकस्मिन् । समये निरन्धानो देह त्रिभागं च मुञ्चन् ।रुणद्धि स काययोगं सङ्घयानी रेव समयः । ततः कृतयोगनिरोधः शैलेशीभावनामेति ॥
१२