________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
धर्मदेशनादौ । काययोगो निमेषोन्मेषचङ्क्रमणादौ । ततोऽनेन योगत्रयेण सह वर्तत इति सयोगी " सर्वादेरिन् " ( सि० ७ - २-५६ ) इतीन् प्रत्ययः । केवलं - केवलज्ञानं केवलदर्शनं च विद्यते यस्य स केवली, सयोगी चासौ केवली च सयोगिकेवली, तस्य गुणस्थानं सयोगिकेवलिगुणस्थानम् १३ ।
५५
तथा न विद्यन्ते योगाः पूर्वोक्ता यस्यासावयोगी । कथमयोगित्वमसावुपगच्छति ? इति चेद् उच्यते- - स भगवान् सयोगिकेवली जघन्यतोऽन्तर्मुहूर्तम् उत्कृष्टतो देशोनां पूर्वकोटीं विहृत्य कश्चित् कर्मणां समीकरणार्थं समुद्यातं करोति, यस्य वेदनीयादिकमायुषः सकाशादधिकतरं भवति, अन्यस्तु न करोति । यदाहुः श्री आर्यश्यामपादा:
'सव्वे विणं भंते! केवली समुग्षायं गच्छन्ति ? गोयमा ! नो इणट्ठे समट्ठे |
जस्साउएणतुल्लाई, बंधणेहिं ठिईहि य ।
भववगाहिकम्माई, न समुग्धायं स गच्छ ॥
-
अगंतूणं समुग्धायं, अनंता केवली जिणा ।
जर मरणविपमुक्का, सिद्धिं वरगड़ गया ( प्रज्ञा० पत्र ६०१ - १ )
1
अत्र "बंधणेहिं" ति बध्यन्त इति बन्धनानि "भुजिपत्यादिभ्यः कर्मापादाने " ( सिं० ५३ - १२८ ) इति कर्मण्यन, कर्मपरमाणवस्तैः, शेषं सुगमम् । गत्वा वाऽगत्वा वा समुद्धा - तम् । समुद्वातस्वरूपं च स्वोपज्ञषडशीतिकटीकायां विस्तरतः प्ररूपितं तत एवावधारणीयम् । भवोपग्राहिकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्पं परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधार्थमुपक्रमते । तत्र पूर्व बादरकाययोगेन बादरमनोयोगं निरुणद्धि, ततो वाग्योगम्, ततः सूक्ष्मकाययोगेन बादरकाय योगम्ः तेनैव सूक्ष्ममनोयोगं सूक्ष्मवाग्योगं चः सूक्ष्मकाययोगं तु सूक्ष्मक्रियमनिवर्तिशुक्लध्यानं ध्यायन् स्वावष्टम्भेनैव निरुणद्धि, अन्यस्यावष्टम्भनीयस्य योगा न्तरस्य तदाऽसत्वात् । तद्ध्यानसामर्थ्याच्च वदनोदरादिविचरपूरणेन सङ्कुचितदेहत्रि भागवर्तिप्रदेशो भवति । तदनन्तरं समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् मध्यमप्रतिपत्त्या ह्रस्वपञ्चाक्षरोगिरणमात्रं कालं शैलेशीकरणं प्रविशति । तत्र शैलेशः - मेरुः तस्येयं स्थिरता - साम्यावस्था शैलेशी, यद्वा सर्ववरः शीलं तस्य य ईशः शीलेशः तस्येयं / योगनिरोधावस्था शैलेशी, तस्यां करणं - पूर्वविरचितशैलेशीसमयस मानगुणश्रेणीकस्य वेदनीयनामगोत्राख्याऽघातिकर्मत्रितयस्याऽ
१ सर्वेऽपि खलु भवन्त ! केवलिनः समुद्घात गच्छन्ति ? गौतम ! नायमर्थः समर्थः । यस्य आयुषा तुल्यनिबन्धनैः स्थितिभिश्च । भवोपग्राहिकर्माणि न समुद्घातं स गच्छति ॥ अगत्वा समुद्घातम् अन Par cafeat fजनाः । जराममरणविप्रमुक्ताः सिद्धिं वरगतिं गताः ।। २समुत्सन्न० क० ख०ग०६०ङ०||