________________
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
७ विस्तरतस्तु क्षपकश्रेणिस्वरूपं स्वोपज्ञशतकटीकायां निरूपितं तत एव परिभावनीयम् । तदेवमन्येष्वपि गुणस्थानेषु क्षीणकषायव्यपदेशः सम्भवति, क्वापि कियतामपि कषायाणां क्षीणत्वात् , अतस्तद्व्यवच्छेदार्थ वीतरागग्रहणम् । क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्ति इति तव्यवच्छेदार्थं छद्मस्थग्रहणम्। छमस्थग्रहणे च कृते सरागव्यवच्छेदार्थं वीतरागग्रहणम् । वीतरागश्वासो छअस्थश्च वीतरागच्छमस्थः । स चोपशान्तकषायोऽप्यस्ति इति तद्व्यवच्छेदार्थ क्षीणकपायग्रहणम् । क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्च क्षीणकषायवीतरागच्छद्मस्थः, तस्य गुणस्थानं क्षीणकपायवीतरागच्छद्मस्थगुणस्थानम् १२ इति ।
सं.लो. सं.मा. सं.मा.
सको.
पु.वे.
हास्य रति अरति शोक भय जुगुप्सा
स्त्रीवे.
अ. क्रो. प्र. क्रो. अ. मा. प्र. मा. अ. मा. प्र. मा. अ. लो. प्र. लो.
स.मो. मि.मो.
मि.मो.
म.को अ.मा. भ मा.अ.लो. तथा योगो वीर्य शक्तिः उत्साहः पराक्रम इति पर्यायाः, स च मनोवाकायलक्षणकर'णभेदात् तिस्रः संज्ञा लभते, मनोयोगो वाग्योगः - काययोगश्चेति । तथा चोक्तं कर्मप्रकृती
परिणामालंबणगहणकारणं तेण लद्धनामतिगं ।
कजन्भासान्नुनप्पवेसविसमीकयपएसं ॥ (गा० ४ ) तत्र भगवतो मनोयोगो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात् , ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनाऽवधिज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वाकारान्यथानुपपत्या लोकस्वरूपादिबाह्यमर्थमवगच्छन्तीति । वाग्योगो
१०णत्रयभे० ख० ॥२ परिणामालम्बनग्रहणकरणं तेन लब्धनामत्रिकम् । कार्याभ्यासान्योऽन्यप्रवेशविषमीकृतप्रदेशम् ॥