________________
देवेन्द्रसूरिविरचितस्वोपज्ञटोकोपेतः
[ गाथा ऊर्ध्व नियमादसौ प्रतिपतति । प्रतिपातश्च द्वेधा-भवक्षयेणाऽद्धाक्षयेण च । तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायाम् । अदाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयोदीरणा व्यवच्छिन्नास्तत्र तत्र प्रतिपतता सता ते आरभ्यन्त इति यावत् । प्रतिपतंश्च तावत् प्रतिपतति यावत् प्रमत्तगुणस्थानम् । कश्चित्तु ततोऽप्यधस्तनं गुणस्थानकद्विकं याति, कोऽपि सासादनभावमपि । यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीति विशेषः । उत्कर्षतश्चेकस्मिन् भवे द्वो वारावुपशमश्रेणि प्रतिपद्यते । यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात् तस्मिन् मवे क्षपकश्रेण्यभावः । यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकणिर्भवेदपीति । उक्तं च सप्ततिकाचूर्णी
'जो दुवे वारे उवसमसेढिं पडिवज्जइ तस्स नियमा सम्मि भवे खवगसेढी नत्थि, जो इक्कसिं उवसमसेढी पडिवज्जइ तस्स खवगसेढी वि हुज्ज त्ति ।। ___ एप कार्मग्रन्थिकाभिप्रायः । आगमाभिप्रायेण त्वेकस्मिन् भव एकामेव श्रेणि प्रतिपद्यते, यदुक्तं कल्पभाष्ये
'एवं अप्परिवडिए, सम्मत्ते देवमणुयजम्मेसु ।
अन्नयरसेढिवज्ज, एगभवेणं च सव्वाई ।। (गा० १०७) - सर्वाणि देशविरत्यादीनि । अन्यत्राप्युक्तम्
मोहोपशम एकस्मिन् , भवे द्विः स्यादसन्त'तम् । यस्मिन् भवे तूपशमः, भयो मोहस्य तत्र न ।। इति
११ । तथा क्षीणाः-अभावमापन्नाः । कषाया यस्य स क्षीणकषायः । तत्रानन्तानुबन्धिकषायान् प्रथममविरतसम्यग्दृष्टयाद्यप्रमत्तान्तेषु गुणस्थानेषु क्षपयितुमारभते, ततो मिथ्यात्वं मिश्रं सम्यक्त्वम् , ततोऽप्रत्याख्यानावरणान् प्रत्याख्यानावरणान् कपायानष्टौ क्षपयितुमारभते, तेषु चार्धक्षपितेष्वेवातिविशुद्धिवशादन्तराल एव स्त्यानचित्रिकं नरकद्विकं तिर्यग्द्विकम् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयः आतपम् उद्योतं स्थावरं सूक्ष्म साधारणमिति प्रकृतिषोडशकं क्षपयति । तस्मिंश्च क्षीणे कपायाष्टकस्य क्षपितशेष क्षपयति । ततो नपुंसकवेदं स्त्रीवेदं हास्यादिषटकं पुवेदं संज्वलनं क्रोधं मानं मायां क्षपयति, एताश्च प्रकृतीरनिवृत्तिवादरसम्परायगुणस्थाने क्षपयति, संज्वलनलोभं सूक्ष्मसम्परायगुणस्थान इति क्षपकश्रेणिः । स्थापना चेयम् । .
१ यो द्वौ वारी उपशमश्रेणि प्रतिपद्यते तस्य नियमात्तस्मिन् मवे क्षपकश्रेणि स्ति, य एकवारं उपशमश्रेणि प्रतिपद्यते तस्य क्षपकपिरपि भवेदिति ॥ २ एवमप्रतिपतिते सम्यक्त्वे देवमनुजजन्मसु । अन्यतरश्रेणिवर्जम एगभवेन च सर्वाणि ॥ ३ ०ततः क० ख० ग० घ० ० ॥ ४ णाः क्षयमा० ख०॥ ५०त्तान्तगु० ख० ग० ङ० ।। ६ स्थापनाऽतनपृष्ठे न्यस्ताऽस्ति ।।