________________
कस्तो द्वितीयः कर्मग्रन्थः ।
तथा छाते केवलज्ञानं केवलदर्शनं चात्मनोऽनेनेति च्छद्म- -ज्ञानावरणदर्शनावरणमोहनीयान्तरायकर्मोदयः । सति तस्मिन् केवलस्यानुत्पादात्, तदपगमानन्तरं चोत्पादात् । छद्मनि तिष्ठतीति च्छद्मस्थः । स च सरागोऽपि भवति इत्यतस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् । वीत:विगतो रागः- मायालोभकषायोदयरूपो यस्य स वीतरागः, स चासौ छद्मस्थश्च वीतरागच्छद्मस्थः । स च क्षीणकषायोऽपि भवति, तस्यापि यथोक्तरागापगमाद् अतस्तद्व्यवच्छेदार्थम् उपशान्तकपायग्रहणम् | "कष शिष" इत्यादिदण्डकधातुहिंसार्थः कषन्ति कष्यन्ते च परस्परमस्मिन् प्राणिन इति कषः - संसारः, कपमयन्ते - गच्छन्त्येभिर्जन्तव इति कषायाः - क्रोधादयः, उपशान्ताः - उपशमिता विद्यमाना एव सङ्क्रमणोद्वर्तनादिकरणोदयायोग्यत्वेन व्यवस्थापिताः कषाया येन स उपशान्तकपायः स चासौ वीतरागच्छद्मस्थश्चेति उपशान्तकपायवीतरागच्स्थः, तस्य गुणस्थानमिति प्राग्वत् । तत्राविरतसम्यग्दृष्टेः प्रभृत्यनन्तानुबन्धिनः कषाया उपशान्ताः सम्भवन्ति । उपशमश्रेण्यारम्भे ह्यनन्तानुबन्धिकषायान् अविरतो देशविरतः प्रमत्तो'ऽप्रमत्तो वा सन् उपशमय्य दर्शन मोहत्रितयमुपशमयति । तदुपशमानन्तरं प्रमत्ताऽप्रमत्तगुणस्थानपरिवृत्तिशतानि कृत्वा ततोऽपूर्वकरण गुणस्थानोत्तरकालमनिवृत्तिवादरसम्पराय गुणस्थाने चारित्रमोहनीयस्य प्रथमं नपुंसक वेदमुपशमयति, ततः स्त्रीवेदम्, ततो हास्यरत्यरतिशोकभयजुगुप्सारूपं युगपत् षट्कम्, ततः पुरुषवेदम्, ततो युगपद् अप्रत्याख्यानावरणप्रत्याख्यानावरणौ क्रोध, ततः संज्वलनक्रोधम्, ततो युगपद् द्वितीयतृतीयो मानौ, ततः संज्वलनमानम्, ततो युगपद् द्वितीयतृतीये माये, ततः संज्वलनमायाम्, ततो युगपद् द्वितीयतृतीयो लोभौ ततः सूक्ष्मसम्परायगुणस्थाने संज्वलन लोभमुपशमयति इत्युपशमश्रेणिः । स्थापना चेयम् । विस्तरतस्तूपशमश्रेणिः स्वोपज्ञशतकटीकायां व्याख्याता ततः परिभावनीया । तदेवमन्येष्वपि गुणस्थानकेषु क्वापि कियतामपि कषायाणामुपशान्तत्वसम्भवाद् उपशान्तकषायव्यपदेशः सम्भवति, अतस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् । उपशान्तकषायवीतराग इत्येतावताऽपीष्टसिद्धौ छद्मस्थग्रहणं स्वरूपकथनार्थ, व्यवच्छेद्याभावात् ; न ह्यच्छद्मस्थ उपशान्तकषायवीतरागः सम्भवति यस्य च्छद्मस्थग्रहणेन व्यवच्छेदः स्यादिति । अस्मिथ गुणस्थानेऽष्टाविंशतिरपि मोहनीयप्रकृतय उपशान्ता ज्ञातव्याः । उपशान्तकषायश्च जघन्येनैकं समयं भवति, उत्कर्षेण त्वन्तमुहूर्त कालं यावत्, तत
L
। सं.ली. । / अली 17 लो. 1
। स मा. ।
। अ.मा. प्र मा. । सं.मा. । 137.01.111.1 । सं.का. । 137.51.19.56
·
। पु.वे. । हास्य | रति । अरति । शांक । भय । जुगु ।
स्त्रीवे. | न. वे
मि. मो. मि. मोस. मो.
| अ.का./अ.मा.अ.मा. अला. ।
[=x