________________
देवेन्द्रसूरिविरचितस्त्रोपज्ञ टीकोपेतः
[ गाथा
वित्यर्थः । इदमुक्तं भवति -- अपूर्वकरणाद्धायाः सप्तसु भागेषु विवक्षितेषु प्रथमे सहभागेष्टपञ्चाशत्, तत्र च व्यवच्छिन्ननिद्राप्रचलापनयने पट्पञ्चाशत् सा च द्वितीये सप्तभागे तृतीये सप्तभागे चतुर्थे सप्तभागे पञ्चमे सप्तभागे षष्ठे सप्तभागे भवतीत्यर्थः । तत्र च षष्ठे सप्तभागे आसां त्रिंशत्प्रकृतीनामन्तो भवति इत्याह---"सुरदुग" इत्यादि । सुरद्विकं - मुरगतिसुरानुपूर्वीरूपं " पणिदि" ति पञ्चेन्द्रियजातिः सुखगतिः - प्रशस्तविहायोगतिः "तसनव" त्ति त्रसनवर्क-त्र्सबादरपर्याप्तिप्रत्येक स्थिरशुभसुभगसुस्वगऽऽदेयलक्षणं ''उरल विणु" त्ति (औदारिकari faar औदारिकाङ्गोपाङ्ग च विनेत्यर्थ: "तरणु" त्ति तनवः - शरीराणि “उ रंग" चि.) उपाङ्गे । इदमुक्तं भवति - वैक्रियशरीरम् आहारकशरीरं तैजसशरीरं कार्मणशरीरं वैक्रियाङ्गोपाङ्गम् आहारकाङ्गोपाङ्ग' चेति । 'समचउर " त्ति समचतुरससंस्थानं "निमिण" चि निर्माण "जिण " ति जिननाम - तीर्थकरनामेत्यर्थः | "वन्नअगुरुलहुचउ" ति चतुःशब्दस्य प्रत्येकमभिसम्बन्धाद् वर्णचतुष्कं–वर्णगन्धरसस्पर्शरूपम्, अगुखेलघुचतुष्कम् - अगुरुलधूपघातपराधातोच्छ्वासलक्षणमित्येतासां त्रिंशत्प्रकृतीनां " छलंसि" ति षष्ठोऽशः - भाग : पशः, मयूरव्यंसकादित्वात् समासः, यथा - तृतीयो भागस्त्रिभाग इति । अत्र डकारस्य लकारो "डो लः " ( सि० ८-१-२०२ ) इति प्राकृतसूत्रेण तस्मिन् पडशे । ततः पूर्वोक्तपट्पञ्चाशत इमास्त्रिशत् प्रकृतयोऽपनीयन्ते शेषाः षड्विंशतिप्रकृतयोऽपूर्वकरणस्य " चरमि" त्ति चरमे - अन्तिमे सप्तमे सप्तभागे बन्धे लभ्यन्त इत्यर्थः । चरमे च सप्तभागे हास्यं च रतिश्व "कुच्छ " त्ति कुत्सा च - जुगुप्सा भयं च हास्यरतिकुत्साभयानि तेषां भेदः -- व्यवच्छेदो हास्यरतिकुत्साभयभेदो भवतीति । एताश्चतस्रः प्रकृतयः पूर्वोक्तपविंशतैरपनीयन्ते, शेषा द्वात्रिंशतिः, सा चानिवृत्तिवादरप्रथमभागे भवतीति ।। ९-१० ॥ एतदेवाह -
अनियgिभागवणगे, इगेगहीणो दुवीसविहो । पुमसंजणच उण्हं, कमेण छेओ सतर हुमे ॥। ११ ॥
'अनिवृत्तिभागपञ्चके' अनिवृत्तिवादराद्वायाः पञ्चसु भागेष्वित्यर्थः । स पूर्वोक्तो द्वाविं शतिबन्ध एकेकहीनो वाच्यः, एकैकस्मिन् भागे एकैकस्याः प्रकृतेर्वन्धव्यवच्छेद इत्यर्थः । कथम् ? इत्याह--‘“पुममंजलाच उण्हं कमेण छेउ" त्ति क्रमेणानुपूर्व्या प्रथमे भागे तु वेदस्य च्छेदस्तत एकविंशतेन्धः, द्वितीये भागे संज्वलनकोधस्य च्छेदस्ततो विंशतेर्बन्धः, तृतीये भागे संज्वलनमानस्य च्छेदस्तत एकोनविंशतेर्वन्धः, चतुर्थे भागे संज्वलनमायायाश्छेदस्ततोऽटादशानां वन्धः, पञ्चमभागे संज्वलन लोभस्य च्छेदः, उत्तरत्र तद्रन्धाध्यवसायस्थानाभावः, छेदहेतुः संज्वलनलोभस्य तु वादरम्पराप्रत्ययो वन्धः स चोत्तरत्र नास्तीत्यतश्छेदस्ततः सूक्ष्मसम्पराये सप्तदशप्रकृतीनां बन्धो भवतीत्यत आह- "सतर सुहुमि" त्ति स्पष्टम् ॥११॥
९६