________________
देवेन्द्रसूरिविरचितम्वोपज्ञटीकोपेतः
[ गाथा
कोद्रस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति । तद्यथा - शुद्ध मर्धविशुद्धमविशुद्धं चेति । स्थापना १०० । तत्र त्रयाणां पुञ्जानां मध्ये यदाऽर्धविशुद्धः पुञ्ज उदेति तदा तदुदयाद् जीवस्यार्धविशुद्धं जिनप्रणीततत्त्वश्रद्धानं भवति, तेन तदाऽसौ सम्यग्मध्यादृष्टिगुणस्थानमन्तमुहूर्तं कालं स्पृशति, तत ऊर्ध्वमवश्यं सम्यक्त्वं मिध्यात्वं वा गच्छतीति ३ ।
"
अन
तथा वितिर्विरतं क्लीवे क्तप्रत्ययः, तत्पुनः सावद्ययोगप्रत्याख्यानं तद् न जानाति नाभ्युपगच्छति न तत्पालनाय यतत इति त्रयाणां पदानामष्टौ भङ्गाः । स्थापना- न ना न तत्र प्रथमेषु चतुर्षु भङ्गेषु मिथ्यादृष्टिरज्ञानित्वात् शेषेषु सम्यग्दृष्टिर्ज्ञानित्वात् न नावा सप्तसु भङ्गेषु नास्य विरतमस्तीत्यविरतः, " अभ्रादिभ्यः " (सि०७-२-४६) इति अप्रत्ययः, चरमभङ्गे तु विरतिरस्तीति । यद्वा विरमति स्म - सावद्ययोगेभ्यो निवर्तते स्मेति विरतः, "गत्यर्थाऽकर्मकपिवभुजेः " ( सि० ५- १ - ११ ) इति aft Facre विरतः, न विरतोऽविरतः स चासौ सम्यग्दृष्टिश्वाविरतसम्यदृष्टिः । इदमुक्तं भवति - यः पूर्ववर्णितौपशमिकसम्यग्दृष्टिः शुद्धदर्शन मोहपुञ्जो - जा अपा दयवर्ती क्षायोपशमिकसम्यग्दृष्टि क्षीणदर्शन सप्तकः क्षायिकसम्यग्दृष्टि परममुनिप्रणीत सावद्ययोगविरतिं सिद्धिसौधाध्यारोहणनिः श्रेणिकल्पां जानन् अप्रत्याख्यानकषायोदयविघ्नतत्वात् नाभ्युपगच्छति न च तत्पालनाय यतत इत्यसावत्रिरतसम्यग्दृष्टिरुच्यते, तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् । उक्तं च
बंधं अविरइहेउँ, जाणंतो रागदोसदुक्खं च । विरहं इच्छंतो, विरहं काउं च असमत्थो ||
एस असंजयसम्मो, निंदतो पावकम्मकरणं च । अहियजीवाजीव, अचलियदिट्ठी चलियमोहो |
४ ।
तथा सर्व सावयोगस्य देशे - एकव्रतविषये ।। स्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावद्ययोगान्ते विरतं विरतिर्यस्यासौ देशविरतः । सर्वसावद्यविरतिः पुनरस्य नास्ति, प्रत्याख्या - नावरणकषायोदयात्, सर्वविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः । उक्तं च" सम्मदंसण सहियो, गिण्हंतो विरइमप्पसत्तीए । गव्याचरिमो अणुमहमित्त त्ति देसजई || देशविरतस्य गुणस्थानं देशविरतगुणस्थानम् ५ |
८२
१ प्रतिस्थिति दलिकान्येवं त्रिधा कुर्वन्ति । २ बन्धमविरतिहेतु जानानो रागद्वेषदुःखं च। त्रिरतिसुखमिच्छन् विरतिं कर्तुं चासमर्थः ॥ एषोऽसंयतसम्यग्दृष्टिः निन्दन् पापकर्मकरणं च । अधिगतजीवाजीवोऽचलितदृष्टिश्वलित मोहः ॥ ३ छलियमोड़ो क० ख० घ० । ४ ०षयस्थूल० क० घ० । ५ सम्यग्दर्शनसहितः गृह्णन् विरतिमात्मशक्त्या । एकव्रतादिचरिमः अनुमतिमात्र इति देशयतिः ॥