________________
२]
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्याऽर्हदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति न शेषलाभ इति । ..
एतदनन्तरं कश्चिदेव महात्माऽऽसन्नपरमनितिमुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परमविशुद्धया यथोक्तस्वरूपस्य ग्रन्थेभेदं विधाय मिथ्यात्वस्थितेरन्तमुहर्तमुदयक्षणाद् उपयतिक्रम्याऽपूर्व करणाऽनिवृत्तिकरणलक्षणविशुद्धिजनितसामाद् अन्तमुहृतकालप्रमाणं तत्प्रदेशवेद्यदलिकामावरूपमन्तरकरणं करोति । अत्र यथाप्रवृत्तिकरणाऽपूर्वकरणाऽनिवृत्तिकरणानामयं क्रमः
जा गंठी ता पढम, गंठिं समइच्छओ भवे बीयं ।
अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ।। (विशे० आ० गा० १२०३) "गंठिं समइच्छओ" ति ग्रन्थि समतिकामतः-भिन्दानम्येति, 'सम्मत्तपुरक्खड" त्ति सम्यक्त्वं पुरस्कृतं येन तस्मिन् आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः ।
एतस्मिंश्चान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः-स्थितिद्वयं भवति । अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तमुहूर्तप्रमाणा, तस्मादेवान्तरकरणाद् / उपरितनी शेषा द्वितीया । स्थापना. तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तमुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदनाऽभावात् । यथा हि वनदावानलः पूर्वदग्धेन्धनमूपरं वा देशमवाप्य विध्यायति, तथोमिथ्यात्ववेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति । तथा च सति तस्यौपशमिकसम्यक्त्वलाभः । उक्तं च
"ऊसरदेसं दडिल्लयं च विज्झाइ वणदवो पप्प ।। ___इय मिच्छस्स अणुदए, उवसमसम्म लहइ जीवो ॥ (विशेषा० गा०२७३४)
तस्यां चान्तमौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्यतः समयशेषायामुस्कृष्टतः षडावलिकाशेषायां सत्यां कस्यचिन्महाविभीषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति, तदुदये चासौ सास्वादनसम्यग्दृष्टिगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित् सासादनत्वं याति, तदुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीति २ ।
तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासौ सम्यग्मिथ्यादृष्टिः, तस्य गुणस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानम् । इहानन्तराभिहितविधिना लब्धेनौपशमिकसम्यक्त्वेन औषधविशेषकल्पेन मदन
१०र्थोऽन्त० क० ग०॥२ यावद् ग्रन्थिः तावत् प्रथमं प्रन्थि समति कामतो मवेद्वितीयम् । अनिवृत्तिकरणं पुनः सम्यक्त्वपुरस्कृते जीवे ॥ ३ अपुवं तु विशेषावश्यकभाष्ये । ४ ऊपरदेशं दग्धं च विध्याति वनदवः प्राप्य । इति मिथ्यात्वस्यानुदये उपशमसम्यक्त्वं लभते जीवः।।