________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
मक्खरं पि इक्कं पि जो न रोएइ सुत्तनिद्दिव ं ।
सेतो विहु मिच्छट्टिी जमालि व्व || (बृहत्सं० गा० १६७ ) इति । किं पुनर्भवदभिहितसकल जीवाजीवादिवस्तुतच्चप्रतिपत्तिविकलः ९ इति १ ।
?
८०
[ गाथा
आयम्-औपशमिकमम्यक्त्वलाभलक्षणं सादयति - अपनयतीत्यायसादनम्, अनन्तानुबन्धिकपाय वेदनम् । अत्र पृषोदरादित्वाद् यशब्दलोपः क्रुद्धहुलमिति कर्तयेनट्, सति यस्मिन् परमानन्दरूपानन्तसुखफलदो निःश्रेयसतरुवीजभूत औपशमिकसम्यक्त्वलामो जघन्यतः समयमात्रेण उत्कर्षतः षड्भिरावलिका भिरपगच्छतीति । ततः सह आसादनेन वर्तत इति सासादनः, सम्यग्-अविपर्यस्ता दृष्टिः-जिन प्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, सासादनश्वासौ सम्यदृष्टिश्च सासादनसम्यग्दृष्टिः, तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् । सास्वादनसम्य
गुणस्थानमिति वा पाठः, तत्र सह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः । यथा हि भुक्तवीरानविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति, तथैषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुद्वमंस्तद्रसमास्वादयति । ततः स चासौं सम्यग्दृष्टिश्च तस्य गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानम् । एतच्चैवं भवति - इह गम्भीरापारसंसारसागरमध्यमध्यासीनो जन्तुमिथ्यात्वप्रत्ययमनन्तान् पुलपरावर्ताननन्तदुःखलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनाभोग निर्वर्तितयथाप्रवृत्त करणेन "करणं परिणामोऽत्र " इति वचनाद् अध्यवसाय विशेषरूपेणाऽऽयुर्वजनि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमासङ्ख्येयभागन्यूनै कसागरोपमकोटा कोटीस्थितिकानि करोति । अत्र चान्तरे जीवस्य कर्मजनितो घनरागद्वेषपरिणामः कर्कशनिविडचिरप्ररूढगुपिलवक्रग्रन्थिवद् दुर्भेदोऽभिन्नपूर्वो ग्रन्थिर्भवति । तदुक्तम्
ती विथोमित्ते, खविए इत्थंतरम्मि जीवस्स । हवइ हु अभिन्नपुत्र्यो, गंठी एवं जिणा विंति ।।
(धर्मसं० १० गा० ७५२, श्राव० प्र० गा० ३२)
गठित सुदुब्भेओ, कक्खडवणरूढ गूढगंठि व्व ।
जीवस कम्मणिओ, घणरागद्दोस परिणामो || (विशेषा० गा० ११९५ ) इति । इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति । उक्तं चाssवश्यकटीकायाम्
१ पदमक्षरमध्येकमपि यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयमानोऽपि हि मिध्यादृष्टिर्जमालिखि ॥ २ तस्या अपि स्तोकमात्रे क्षपित अत्रान्तरे जीवस्य । भवति हि अभिन्नपूर्वो ग्रन्थिरेवं जिना ब्रुवन्ति ॥ ग्रन्थिरिति सुदुर्भदः कर्कश्चनरूढ गूढप्रन्थिरिव । जीवस्य कर्मजनितो घनरागद्वेषपरिणामः ॥