________________
२]
७६
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । तिगुणस्थानं ५/प्रमत्तसंयतगुणस्थानम् ६ अप्रमत्तसंयतगुणस्थानम् ७ अपूर्वकरणगुणस्थानम् ८ अनिवृत्तिवादरसम्परायगुणस्थानं ९ सुक्ष्मसम्परायगुणस्थानम् १० उपशान्तकषायवीतरागछमस्थगुणस्थानं ११ क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं १२ सयोगिकेवलिगुणस्थानम् १३ अयोगिकेवलिगुणस्थानम् १४ इति ।
तत्र गुणाः-ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थानम्-पुनरत्र तेषां शुद्धयविशु. द्विप्रकोपकपकृतः स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इति कृत्वा, गुणानां स्थानं गुणस्थानम् , मिथ्या-विपर्यस्ता दृष्टिः-अर्हत्प्रणीतजीवाजीवादिवस्तुप्रतिपत्तिर्यस्य भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवा स मिथ्यादृष्टिः, तस्य गुणस्थानं-ज्ञानादिगुणानामविशुद्धिप्रकर्षविशुद्धयपकर्षकृतः स्वरूपविशेषो मिथ्यादृष्टिगुणस्थानम् ।
ननु यदि मिथ्यादृष्टिः ततः कथं तस्य गुणस्थानसम्भवः ? गुणा हि ज्ञानादिरूपाः, तत् कथं ते दृष्टी विपयस्तायां भवेयुः ? इति, उच्यते-इह यद्यपि सर्वथाऽतिप्रबलमिथ्यात्वमोहनी. योदयाद् अर्हत्प्रणीतजीवाजीवादिवस्तुप्रतिपत्तिरूपा दृष्टिग्सुमतो विषयेस्ता भवति तथापि काचिद् मनुष्यपश्वादिप्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ताऽपि भवति, अन्यथाऽजीवत्वप्रसङ्गात् । यदागमः
'सब्यजीवाणं पि य णं अक्खरस्म अणंतभागो निच्चुग्याडिओ चिट्ठइ, जइ पुण सो वि आकरिजिज्जा ता णं जीवो अजीवत्तणं पाविज्जा । (नन्दीपत्र १६५-२) इति । ९. तथाहि-समुन्नताऽतिबहलजीमूतपटलेन दिनकररजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः सम्पद्यते, प्रतिप्राणिप्रसिद्धदिनरजनिविभागाऽभावप्रसङ्गात् । उक्तं च
'सुटु वि मेहसमुदए, होइ पहा चंदसूराणं । (नन्दीपत्र० १६५-२) इति । एवमिहापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्ताऽपि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भवः ।
यद्येवं ततः कथमसो मिथ्यादृष्टिरेव ? मनुष्यपश्वादिप्रतिपत्यपेक्षया अन्ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपत्त्यपेक्षया वा सम्यग्दृष्टित्वादपि, नैष दोषः, यतो भगवदर्हत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्गदितमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशात् । तदुक्तम्
१ सर्वजोबानामपि च अक्षरस्यानन्तभागो नित्योद्घाटितस्तिष्ठति यदि पुनः सोऽपि आब्रियेत ततो जीवोऽजीवत्वं प्राप्नुयात् ।। २ सुष्ट्वषि मेघसमुदये भवति प्रभा चन्द्र सूर्ययोः ।।