________________
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । तथा संयच्छति स्म--सम्यग् उपरमति स्म संयतः, “गत्यर्थाऽकर्म०" (५--१.-११) इति क्तः, प्रमाद्यति स्म-संयमयोगेषु सीदति स्म, प्राग्वत् कर्तरि क्तः प्रमत्तः, यद्वा प्रमदनं प्रमत्तंप्रमादः, स च मदिराविषयकषायनिद्राविकथानामन्यतमः सर्वे वा । प्रमत्तमस्यास्तीति प्रमत्त:--प्रमादवान "अभ्रादिभ्यः" (सि०७-२-४६) इति अप्रत्ययः, प्रमत्तश्चासौ संयतश्च प्रमत्तसंयतः, तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानम् , विशुद्धयविशुद्धिप्रकर्षाऽपकर्ष कृतः स्वरूपभेदः। थाहि-देशविरतिगुणापेक्षया एतद्गुणानां विशुद्धिप्रकर्षोऽविशुद्धयएकपश्च, अप्रमत्तसंयतापेक्षया तु विपर्ययः । एवमन्येष्वपि गुणस्थानेषु पूर्वोत्तरापेक्षया विशुद्धविशुद्धिप्रकर्षाऽपकर्षयोजना द्रष्टव्या ६ ।
न प्रमत्तोऽप्रमत्तः । यद्वा नास्ति प्रमत्तमस्यासावप्रमत्तः, स चासो संयतश्च, तस्य गुणस्थानम् अप्रमत्तसंयतगुणस्थानम् ७। ___ अपूर्वम्--अभिनवं प्रथममित्यर्थः करणं-स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमस्थितिबन्धानां पञ्चानामर्थानां निवर्तनं यस्यासावपूर्वकरणः । तथाहि-बृहत्प्रमाणाया ज्ञानावरणीयादिकर्मस्थितेरपवर्तनाकरणेन खण्डनम् अल्पीकरणं स्थितिघात उच्यते । रसस्यापि प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खण्डनम् -अल्पीकरणं रसघात उच्यते । एतौ द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवान्, अत्र पुनर्विशुद्धः प्रकृष्टत्वाद् बृहत्प्रमाणतया अपूर्वाविमौ करोति । तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनाऽवतारितस्य दलिकस्यान्तमुहूर्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसङ्खये यगुणवृद्धया विरचनं गुणश्रेणिः । स्थापना
३ । एतां च पूर्वगुणस्थानेष्वविशुद्धत्वात् कालतो द्राधीयसी दलिकरचनामाश्रित्याऽप्रथी' यसीमल्पदलिकस्यापर्वतनाद् विरचितवान् इह तु तामेव विशुद्धत्वादपूर्वां कालतो ह्रस्वतरां दलिकरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद् विरचयतीति । तथा बध्यमानशुभप्रकृतिष्ववध्यमानाशुभप्रकृतिदलिकस्य प्रतिक्षणमसङ्ख्य यगुणवृद्ध्या विशुद्धिवशाद् नयनं गुणसङ्क्रमः, तमप्यसाविहापूर्व करोति । तथा स्थिति कर्मणामशुद्धत्वात् प्राग द्राधीयसीं बद्धवान् , इह तु तामपूर्वां विशुद्धत्वादेव ह्रसीयसीं बध्नातीति [ स्थितिबन्धः] ।
अयं चापूर्वकरणो द्विधा-क्षपक उपशमकश्च, क्षपणोपशमनार्हत्वात् चैवमुच्यते, राज्याहकुमारराजवत् , न पुनरसौ क्षपयत्युपशमयति वा, तस्य गुणस्थानम् अपूर्वकरणगुणस्थानम् ।
एतच्च गुणस्थानं प्रपन्नानां कालत्रयवर्तिनो नानाजीवानपेक्ष्य सामान्यतोऽसङ्घय यलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति । कथं पुनस्तानि भवन्ति ? इति विनेयजनानुग्रहार्थ विशेषतोऽपि प्ररूप्यन्ते-इह तावदिदं गुणस्थानकमन्तमुहूर्तकालप्रमाणं भवति । तत्र च प्रथमसमयेऽपि ये प्रपन्नाः प्रपद्यन्ते प्रपत्स्यन्ते च तदपेक्षया जघन्यादीन्युत्कृष्टान्तान्यसङ्खये -
१ व्यसी दलिकस्याल्पस्यापर्व० ख० ।।
00000000
000