________________
॥ अर्हम् ।।
पूज्य श्री देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
|| नमः श्रीप्रवचनाय ||
बन्धोदयोदीरणसत्पदस्थं निःशेषकर्माविलं निहत्य | यः सिद्धिसाम्राज्यमलञ्चकार, श्रिये स वः श्रीजिनवीरनाथः ॥ नत्वा गुरुपदकमलं, गुरूपदेशाद्यथाश्रुतं किञ्चित् । कर्मस्वस्य विवृतिं विदधे स्वपरोपकाराय || तत्राऽऽदावेव मङ्गलार्थमभीष्ट देवतास्तुतिमाह---
तह धुणिमो वोरजिणं, जह गुणठाणेसु सगलकम्माई | बंधुओदीरणया सत्तापक्षाणि स्ववियाणि ॥ १ ॥
ततश्च
‘तथा' तेन प्रकारेण ‘स्तुमः' असाधारणसभूतसकलकर्मनिर्मूलक्षपण लक्षण गुणकीर्तन स्तवनगोचरीकुर्मः, :, कम् ? 'वीरजिनं' तत्र विशेषेण - अपुनर्भावेन ईर्ते - ईरिक् गतिकम्पनयोः ' इति वचनाद याति शिवं, कम्पयति- आस्फोटयति अपनयति कर्म वेति वीरः, यदि वा 'शूर वीरण विक्रान्तौ' वीरयति स्म - कषायोपसर्गपरिषहादिशत्रुगण मभिभवति स्म वीरः, उभयत्र लिहादित्वाद् अच्, यद्वा ईरणमीर:, "भावाकर्त्री : " ( सि० ५ -३ - १८) इति घञ्, विशिष्ट ईर:- गमनं / 'सर्वे गत्यर्था ज्ञानार्थाः' इति वचनाद् ज्ञानं यस्य स वीर इति, अनेन व्युत्पत्तित्रयेण भगवतश्चरमजिनेश्वरस्य स्वार्थसम्पदमाह । अथवा विशिष्टा - सकलभुवनाद्भुता का स्वर्गापवर्गादिका ई: - लक्ष्मीस्तां राति - भव्येभ्यः) प्रयच्छति 'रांक् दाने' इति वचनाद् वीरः, "आतो डोsह्वावामः" ( सि० ५ १-७६ ) इति उप्रत्ययः, राति च भगवान् सुरासुनरोरगति साधारण्या वाण्या निःश्रेयसाभ्युदयसाधनोपायोपदेशेन भव्यानां भुवनाद्भुतां श्रियम्, तथा चोक्तम् —
"अरहंता भगवंतो, अहियं च हियं च न वि इहं किंचि ।
वारंति कारवंति य, घेत्तूण जणं बला हत्थे || ( उप० मा० गा० ४४८)
१ अर्हन्तो मगवन्तोऽहितं च हितं च नापि इह किञ्चित् । वारयन्ति कारयन्ति च गृहीत्वा जनं
बलदस्ते