________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः कुन्दोज्ज्वलकीर्ति' भरैः, सुरभीकृतसकलविष्टपाभोगः । शतमखशतविनतपदः, श्रीगौतमगणधरः पातु ।। २ ।। तदनु सुधर्मस्वामी, जम्बूप्रभवादयो मुनिवरिष्ठाः ।
- श्रुतजलनिधिपारीणा, भूयांसः श्रेयसे सन्तु ॥ ३ ॥ ततः प्राप्तातपाचार्येत्यभिख्या भिक्षुनायकाः। समभूवन् कुले चान्द्रे, श्रीजगचन्द्रसूरयः॥४॥ जगजनितबोधानां, तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्र सूरयः ।।५।। स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा । टीकाकर्मविपाकस्य, सुबोधेयं विनिर्ममे ।।६।।
विवुधवरधर्मकीर्तिश्रीविद्यानन्दसूरिमुख्यबुधैः । स्वपरसमयककुशलैस्तदैव संशोधिता चेयम् ।। ७ ।। यद्गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे । विद्वद्भिस्तत्त्वज्ञैः, प्रसादमाधाय तच्छोध्यम् ॥ ८ ॥ कर्मविपाके विवृति, वितन्वता यन्मयाऽर्जितं सुकृतम् । कर्मविपाकविमुक्तः, समस्तु सर्वोऽपि तेन जनः ।। ९ ।। ग्रन्थानम्--१८८२ ॥
समाप्तोऽयं सटीकः कर्मविपाकः
१०मरः ख० ङ०।। २ ०ग्रम्--१७८२ क० घ
॥