________________
५७-५८ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । यस्य स मध्यमगुणः अधमगुणस्य हि नरकायुःसम्भवाद् , उत्तमगुणस्य तु सिद्धेः सुरलोकायुषो वा सम्भवादिति भावः । चशब्दाद् अल्पपरिग्रहाऽल्पारम्भादिपरिग्रहः । आह च
अल्पो परिग्रहारम्भौ, सहजे मार्दवाऽऽर्जवे । कापोतपीतलेश्यात्वं, धर्मध्यानानुरागिता ॥ प्रत्याख्यानकषायत्वं, परिणामश्च मध्यमः । संविभागविधायित्वं, देवतागुरुपूजनम् ॥ पूर्वालापप्रियालापो, सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्य, मानुषायुष आश्रवाः ॥
(योगशा० टी० पत्र० ३०७-२) उक्ता मनुष्यायुपो बन्धहेतवः । सम्प्रति देवायुषस्तानाह--
अविरयमाइ सुराउ, पालत'वोऽकामनिज्जरो जयह ।
सरलो अगारविल्लो, सुहनामं अनहा असुई ॥५८॥ 'अविरतः' अविरतसम्यग्दृष्टिः ‘सुरायुः' देवायुष्कं 'जयति' बध्नाति, आदिशब्दाद् देशविरतसरागसंयतपरिग्रहः । वीतरागसंयतस्त्वतिविशुद्धत्वादायुर्न बध्नाति, घोलनापरिणाम एव तस्य बध्यमानत्वात् । बालं तपो यस्य सः 'बालतपाः' अनधिगतपरमार्थस्वभावो दुःखगर्भमोहगर्भवैराग्योऽज्ञानपूर्वकनिवर्तिततपःप्रभृतिकष्टविशेषो मिथ्याष्टिः, सोऽप्यात्मगुणानुरूपं किश्चिदसुरादिकायुर्वध्नाति । यदाह भगवान् भाष्यकार:
बालतवे पडिबद्धा, उक्कडरोसा तवेण गारविया । . वेरेण य पडिबद्धा, मरिउं असुरेसु उववाओ ।। (बृ० संग्र० गा० १६०)
अकामस्य-अनिच्छतो निर्जरा-कर्म विचटनलक्षणा यस्यासावकामनिर्जरः । इदमुक्तं भवति-"अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीयायवदंसमसगअण्हाणगसेयजल्लमलपंकपरिग्गहेणं दीहरोगचारगनिरोहबंधणयाए गिरितरुसिहरनिवडणयाए जलजलणपवेसअणसणाईहि उदकराजिसमानकषायस्तदुचितशुभपरिणामः किश्चिद् व्यन्तरादिकायुबध्नाति । उपलक्षणत्वात् कल्याणमित्रसम्पर्कमानसो धर्मश्रवणशील इत्यादिपरिग्रहः । यदाहुः
सरागसंयमो देशसंयमोऽकामनिर्जरा | कल्याणमित्रसम्पर्को, धर्मश्रवणशीलता ॥ पात्रे दानं तपः श्रद्धा, रत्नत्रयाऽविराधना । मृत्युकाले परिणामो, लेश्ययोः पद्मपीतयोः ।। बालतपोऽग्नितोयादिसाधनोल्लम्बनानि च ।/अव्यक्तसामायिकता, देवस्यायुष आश्रवाः ।।
(योगशा० टी० पत्र ३०७-२)
१०तवाऽका० क०ख०ग०० २ बालतपसि प्रतिबद्धा उत्कटरोषास्तपसा गर्विताः। वरेण च प्रतिबद्धाः (तेषां) मृत्वा असुरेषु उपपातः । ३ अकामतृष्णया अकामक्षधया अकामब्रह्मचर्यवासेन अकामशीतातपदंशमशकास्नानकस्वेदजल्लमलपङ्कपरिग्रहेण दीर्घरोगचारकनिरोधबन्धनतया गिरितरुशिखरनिपतनतया जलज्वलनप्रवेशानशनादिभिः ।।
१०