SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [ गाथा स्त्रीपुसानगसेवोग्राः, कपायास्तीवकामता। पाखण्डिस्त्रीत्र'तभङ्गः, षण्ढवेदाश्रवा अमी। साधूनां गर्हणा धर्मोन्मुखानां विनकारिता । मधुमासविरतानामविरत्यभिवर्णनम् ॥ विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं, तथा चारित्रदूषणम् ॥ कषायनोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य, सामान्येनाश्रवा अमी ॥ (योगशा० टी० पत्र ३०७-१) अभिहिता मोहनीयस्य बन्धहेतवः । सम्प्रति चतुर्विधस्याप्यायुपस्तानाह- "बंधइ नरयाउ" इत्यादि । 'बध्नाति' अर्जयति 'नरकायुः' नारकायुष्कं जीवः । किंविशिष्टः ? इत्याह-'महारम्भपरिग्रहरतः' महारम्भरतो महापरिग्रहरतश्वेत्यर्थः । 'रौद्रः' रौद्रपरिणामो गिरिभेदसमानकषायरौद्रध्यानाऽऽरूषितचेतोवृत्तिरित्यर्थः । उपलक्षणत्वात् पञ्चेन्द्रियवधादिपरिग्रहः । यन्न्यगादिपञ्चेन्द्रियप्राणिवधो, बहारम्भपरिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता । कृष्णनीलकापोताच, लेश्या अनृतभाषणम् ।। परद्रव्यापहरणं, मुहुमैथुनसेवनम् । अवशेन्द्रियता चेति, नरकायुष आश्रवाः ।। (योगशा० टी० पत्र ३०७-१)॥ ५६ ॥ उक्ता नरकायुपो बन्धहेतवः । इदानी तिर्यगायुपस्तानाह-- तिरियाउ गूढहियओ, सढो ससल्लो तहा मणस्साउं । पयईइ तणुकसाओ, दाणरूई मज्झिमगुणो य ।। ५७ ।। तिर्यगायुर्वध्नाति जीवः, किंविशिष्टः ? इत्याह-'गूढहृदयः' उदायिनृपमारकादिवत् तथा आत्माभिप्रायं सर्वथैव निगृहति यथा नापरः कश्चिद् वेत्ति, 'शठः' वचसा मधुरः, परिणामे तु दारुणः, 'सशल्यः' रागादिवशाऽऽचीर्णाऽनेकवतनियमाऽतिचारस्फुरदन्तःशल्योऽनालोचिताऽप्रतिक्रान्तः, तथाशब्दाद् उन्मार्गदेशनादिपरिग्रहः । उक्तं च-- उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आतध्यानं सशल्यत्वं, मायारम्भपरि ग्रहौ । - शीलवते सातिचारो, नीलकापोतलेश्यता । अप्रत्याख्यान कपायाम्तिर्यगायुष आश्रवाः ।। (योगशा० टी० पत्र ३०७-२) J उक्तास्तिर्यगायुर्वन्धहेतवः । अथ मनुष्यायुषस्तानाह-"म गुस्साउं" इत्यादि । मनुष्यायुर्जीवो बध्नाति. किंविशिष्टः ? इत्याह-'प्रकृत्या' स्वभावेनैव 'तनुकषायः' रेणुराजिसमानकषायः, 'दानरुचिः' यत्र तत्र वा दानशीलः, मध्यमास्तदुचिताः केचिद् गुणाः--क्षमामार्दवाऽऽर्जवादयो १०तभ्रंशः योगशास्त्रे ।। २ ०ग्रहाः ख० ग० ङ० ।। ३ नाः क० योगशास्त्रो॥ ४ गुस्साउ इ०क० ख० ग० कु०॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy