________________
५४-५६ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । क्षणः, आदिशब्दात् सिद्धगुरुश्रुतादिपरिग्रहः, तेषां प्रत्यनीकः- अवर्णवादाशातनाद्यनिष्टनिर्वतको दर्शनमोहमर्जयति । । यदभाणि
वीतरागे श्रुते सङ्घ, धर्मे सर्वसुरेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामिता ॥ सर्वज्ञसिद्धदेवापह्नवो धार्मिकदूषणम् । उन्मार्गदेशनानाग्रहोऽसंयतपूजनम् ॥ असमीक्षितकारित्वं, गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ।
(योगशा० टी० पत्र ३०७-१) ।। ५५ ॥ दुविह पि चरणमोहं. कसायहासाइविसयविवसमणो ।
बंधइ नरयाउ महार भपरिग्गहरओ रुद्दो ॥५६॥ 'द्विविधमपि' द्विभेदमपि 'चरणमोहं' चारित्रमोहनीयं -कषायमोहनीयनोकषायमोहनीयरूपं जीवो बध्नातीति सम्बन्धः । किंविशिष्टः १ इत्याह-'कषायहास्यादिविषयविवशमनाः' तत्र कपायाः--क्रोधादय उक्तस्वरूपाः षोडश, हास्यादयः-हास्यरत्यरतिशोकमयजुगुप्सा इति गृह्यन्ते, विषयाः--शब्दरूपरसगन्धस्पर्शाख्याः पञ्च, ततः कषायाश्च हास्यादयश्च विषयाश्च कषायहास्यादिविषयास्तै विवशं--विसंस्थुलं पराधीनं मनः-मानसं यस्य स कपायहास्यादिविषयविवशमनाः । इदमत्र हृदयम्-कषायविवशमनाः कषायमोहनीयं बध्नाति, हास्यादिविवशमनास्तु हास्यादिमोहनीयं---हास्यमोहनीयरतिमोहनीयाऽरतिमोहनीयशोकमोहनीयभयमोहनीयजुगुप्सामोहनीयाख्यं नोकपायमोहनीयं बध्नाति विषयविवशमनाः पुनर्वेदत्रयाख्यं नोकपायमोहनीयं बध्नाति । सामान्यतः सर्वेऽपि कंषायहास्यादिविषया द्विविधस्यापि चारित्रमोहनीयस्य बन्धहेतवो भवन्ति । यत्प्रत्यपादि
कषायोदयतस्तीवः, परिणामो य आत्मनः १ चारित्रमोहनीयस्य, स आश्रव उदीरितः ।। उत्प्रासनं सकन्दर्पोपहासो हासशीलता । बहुप्रलापो दैन्योक्तिर्हास्यस्यामी म्युराश्रवाः ।। देशादिदर्शनौत्सुक्य, चित्रे रमणखेलने । परिचित्ता'वर्जना चेत्याश्रवाः कीर्तिता रतेः ।। असूया पापशीलत्वं, परेषां रतिनाशनम् । अकुशलप्रोत्साहनं, चारतेराश्रवा अमी ।। स्वयं भयपरीणामः, परेषामथ भापनम् । त्रासनं निर्दयत्वं च, भयं प्रत्याश्रवा अमी ।। परशोकाविष्करणं, स्वशोकोत्पादशोचने । रोदनादिप्रसक्तिश्च, शोकस्यैते स्युराश्रवाः ।। चतुर्वर्णस्य सङ्घस्य, परिवादजुगुप्सने । सदाचारजुगुप्सा च, जुगुप्सायां स्युराश्रवाः ।। ईर्ष्या विषादगायें च, मृषावादोऽतिवक्रता। परदाररतासक्तिः, स्त्रीवेदस्याश्रवा इमे ।। स्वदारमात्रसन्तोषोऽनीा मन्दकषायता । अवक्राचारशीलत्वं, पुवेदस्याश्रवा इति ॥
१ वर्जनं योगशास्त्रे ॥