SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचित्तस्योपज्ञटीकोपेतः [ गाथा उक्ता ज्ञानावरणदर्शनावरणयन्धहेतवः इदानीं वेदनीयस्य द्विविधस्यापि तानाह गुरुभत्तिखंतिकरुणावयजोगकसायविजयदाणजओ । दढधम्माई अन्जइ, सायमसाय विवज्जयओ ।। ५४ ॥ इह युतशब्दस्य प्रत्येकं योगः, ततो गुरवः-मातापितृधर्माचार्यादयस्नेषां भक्तिः-आसनादिप्रतिपत्तिगुरुभक्तिस्तया युतो गुरुभक्तियुतः-गुरुभक्तिसमन्वितो जन्तुः 'सातं' सातवेदनीयम् 'अर्जयति' समुपार्जयतीति सम्बन्धः । 'क्षान्तियुतः क्षमान्वितः करुणायुतः' दयापरितचेताः । 'व्रतयुतः' महाव्रताऽणुव्रतादिसमन्वितः 'योगयुतः' दशविधचक्रवालसामाचार्याद्याचरणगुणः 'कपायविजययुतः' क्रोधादिकषायपरिभवनशीलः 'दानयुतः' दानरुचिः 'दृढधर्मः' आपत्स्वपि निश्चलधर्मः, आदिशब्दाद् बालवृद्धग्लानादिययावत्यकरणशीलो जिनचैत्यपूजापरायणश्च सातम् 'अर्जयति' बध्नाति । यदवाचि 'देवपूजागुरूपास्तिपात्रदानदयाक्षमाः । (योगशा० टी० पत्र ३०६-२) • सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति, सद्वेद्यस्य स्युराश्रवाः ॥ (योगशा० टी० पत्र ३०६-२) तथा 'विपर्ययतः' सातबन्धविपर्यशेण असातमर्जयति, स्थाहि-गुरूणामवज्ञायकः क्रोधनो निर्दयो व्रतयोगविकल उत्कटकषायः कार्पण्यवान् सद्धर्मकृत्यप्रमत्तः हस्त्यश्चयलीबर्दादिनिर्दयदमनबाहनलाञ्छनादिकरणप्रवणः स्वपरदुःखशोकवधतायक्रन्दनपरिदेवनादिकारकश्चेति । यदभ्यधाथिदुःखशोकवधास्तापक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः ।। (योगशा० टी० पत्र ३०६-२) ।। ५४ ।। उक्ता वेदनीयस्य बन्धहेतवः । साम्प्रतं मोहनीयस्य द्विविधस्यापि तानाह उम्मग्गदेखणामग्गनासणादेवदव्वहरणेहिं। दसणमोहं जिणमुणिचेइयसंघाइपडिणीओ ॥ ५५ ॥ उन्मार्गस्य--भवहेतोमोक्षहेतुत्वेन देशना कथनमुन्मार्गदेशना, मार्गस्य- ज्ञानदर्शनचारित्रलक्षणस्य मुक्तिपथस्य नाशना अपलपनं मागेनाशना, देवद्रव्यस्य चेत्यद्रव्यस्य हरणं-भक्षणापेक्षणप्रज्ञाहीनत्वलक्षणम् , तत उन्मार्गदेशना च मार्गनाशना च देवद्रव्यहरणं च तैहे तुभिर्जीवः 'दर्शनमोह' मिथ्यात्वमोहनीयमर्जयति । तथा 'जिनमुनिचैत्यसङ्घादिप्रत्यनीकः' तत्र। जिनाःतीर्थकराः, मुनयः-साधवः, चैत्यानि-प्रतिमारूपाणि, सङ्घः-साघुसाध्वीश्रावकश्राविकाल १ देवपूजा गुरूमास्तिः पात्रदानं दया क्षमा । इति योगशास्त्रे ॥ २ च इति हेतु० क० ग० ध० ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy