________________
५१.५३ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । नृपतिः, आदिशब्दात् श्रेष्ठीश्वरतलबरादिपरिग्रहः 'न करोति' कर्तुं न पारयति दानादि, आदिशब्दाद् लाभभोगोपभोगादिग्रहणम् । 'एवम्' अमुना श्रीगृहिकदृष्टान्तेन 'विघ्नेन' अन्तरायकर्मणा 'जीवोऽपि' जन्तुरपि दानादि कर्तुं न पारयतीति ।। ५२ ।। ___ व्याख्यातं पश्चविधमन्तरायं कर्म, तद्व्याख्याने च समर्थिता "इह नाणदंसणावरणवेय" (गा० ३) इत्यादिमूलगाथा । अथ 'कीरइ जिएण हेऊहिं जेण तो भन्नए कम्म" (गा० १) इत्यादौ यदुक्तं तद्व्याख्यानार्थ यस्य कर्मणो ये बन्धहेतवस्तान क्वचन हेतु द्वारेण क्वाऽपि च हेतुमद्वारेण दिदर्शयिपुराह
पशिणीयत्तण निन्हव, उवधाय पओस अंतराएणं ।
अच्चासायणयाए, आवरणदुर्ग जिओ जयइ ।। ५३ ।। 'आवरणद्विकं' ज्ञानावरणदर्शनावरणरूपं जीवः 'जयति' धातूनामनेकार्थत्वाद् बध्नातीति सम्बन्धः । तत्र ज्ञानस्य-मत्यादेानिना-साध्वादीनां ज्ञानसाधनस्य-पुस्तकादेः 'प्रत्यनीकत्वेन' तदनिष्टाचरणलक्षणेन 'निलवेन' न मया तत्समीपेऽधीतमित्यादिस्वरूपेण 'उपघातेन' मूलतो विनाशस्वरूपेण 'प्रद्वेषेण' आन्नराप्रीतिरूपेण 'अन्तरायेण' भक्तपानवसनोपायलाभनिवारणलक्षणेन 'अत्याशातनया' च जात्याधुघट्टनादिहीलारूपया ज्ञानावरणं कर्म जयतीति सर्वत्र द्रष्टव्यम् । एतचोपलक्षणम् , अतो ज्ञान्यवर्णवादेन आचार्योपाध्यायाद्यविनयेनाऽकालस्वाध्यायकरणेन काले च स्वाध्यायाऽविधानेन प्राणियधाऽनृतभाषणस्तैन्याऽब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिभिश्च ज्ञानावरणं जयतीत्याद्यपि वक्तव्यमिति । एवं दर्शनावरणेऽपि वाच्यम् , नवरं दर्शनाभिलापो वक्तव्यः । तथाहि-दर्शनस्य-चक्षुर्दर्शनादेर्दर्शनिना-साध्वादीनां दर्शनरांसाधनस्य-श्रोत्रनयननासिकादेः सम्मत्यनेकान्तजयपताकादिप्रमाणशास्त्रपुस्तकादेर्वा प्रत्यनी'कत्वेन- तदनिष्टाचरणलक्षणेन, निह्नवेन-न मया तत्समीपेऽधीतमित्यादिस्वरूपेण, उपघातेनमूलतो विनाशेन, प्रद्वेषेण-आन्तराप्रीत्यात्मकेन, अन्तरायेण-भक्तपानवसनोपाश्रयलाभनिवारणेन, अत्याशातनया "च-जात्यादिहीलया दर्शनावरणं कर्म जयतीति सर्वत्र द्रष्टव्यम् । उपलक्षणमिदम् , अतो दर्शनिनां दूषणग्रहणेन श्रवणकर्तननेत्रोत्पाटननासादजिहाविकर्तनादिना प्राणियधाऽनृतभाषणस्तैन्याऽब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिभिश्च दर्शनावरणं जयतीत्याद्यपि वक्तव्यम् । यदवादि श्रीहेमचन्द्रसूरिप्रभुपादैः
ज्ञानदर्शनयोस्तद्वत् , तद्वेतूनां च ये किल। विघ्ननिह्नवपैशून्याऽऽशातनाघातमत्सराः ॥
ते ज्ञानदर्शनावारकमेहेतव आश्रवाः । (योगशा० टी० पत्र ३०६-२) ॥ ५३॥ १ कत्वनिह्नवोपघातान्तरायात्याशातनादिभिर्दर्श० कम्घ पुस्तकयो रेवं पाठः ॥