________________
देवेन्द्रसूरिविरचितस्वोपन्नटीकोपेतः
[ गाथा लादि तादृशं विदधाति यादृशमप्रक्षिप्तमद्यमपि लोकाद् निन्दा लभतेः तथा यदुदयाद् निर्धनः कुरूपो बुध्यादिपरिहीणोऽपि पुरुषः सुकुलजन्ममात्रादेव लोकात् पूजां लभते तद् उच्चैर्गोत्रम् ?; यदुदयात् पुनर्महाधनोऽप्रतिरूपरूपो बुद्ध्यादिसमन्वितोऽपि पुमान् विशिष्टकुलाऽ. भावाद् लोकाद् निन्दा प्राप्नोति तद् नीचैोत्रम् २ इति । उक्तं द्विविधं गोत्रकर्म ॥ ___ अथ विघ्नकर्म पञ्चधा व्याख्यानयनाह-"विग्धं दाणे लाभे" इत्यादि । विशेषेण हन्यन्तेतहानादिलब्धयो विनाश्यन्तेऽनेनेति विघ्नम्-अन्तरायकर्म । तच्च विषयभेदात् पञ्चधेति दर्शयति-दीयत इति दानं तस्मिन्, लभ्यत इति लाभस्तस्मिन्, भुज्यते-सकृदुपभुज्यत इति भोगः पुष्पाहारादिः, उपेति-पुनः पुनर्भुज्यत इति उपभोगो म'वनाऽऽसनाङ्गनादि । उक्तं च
'सइ भुञ्जइ त्ति भोगो, सो पुण आहारपुष्फमाईसु । ___उपभोगो उ पुणो पुण, उवभुञ्जइ भवणवणियाई ।। (वृ०क०वि० गा० १६५) ततो भोगश्च उपभोगश्च भोगोपभोगौ तयोः, प्राकृतवशाच द्विवचनस्थाने बहुवचनं भवति, यदाहुः श्रीहेमचन्द्रसूरिपादाः स्वप्राकृतलक्षणे-"द्विवचनस्य बहुवचनम्" (सि. ८-३१३०) इति । विशेषेण ईर्यते-चेष्टयतेऽनेनेति वीर्यम् , यद्वा विविधम्-अनेकप्रकारमीरयति -यत प्राणिनं क्रियासु तद् वीर्य सामर्थ्य शक्तिरिति पर्यायास्तस्मिन् 'चः' समुच्चये, सर्वत्र विघ्नमिति योज्यम् । विषयसप्तमी चेयं सर्वत्र । ततो दानादिविषयभेदतो दानादिविषयं पञ्चधा विघ्नं कर्म भवतीति वाक्याक्षरार्थः भावार्थस्त्वयम्-सत्यपि दातव्ये वस्तुनि, आगते च गुणवति पात्रे, जानन्नपि दानफलं, यदुदयाद् दातुनोत्सहते तद् दानान्तरायम् १ । यदुदयाद् विशिष्टेऽपि दातरि, विद्यमानेऽपि देये वस्तुनि, याच्चाकुशलोऽपि याचको न लभते तद् लाभान्तरायम् २। यदुदयात् सति विभवादौ सम्पद्यमाने चाहारमाल्यादौ विरतिहीनोऽपि न भुङ्क्ते तद् भोगान्तरायम् ३ । यदुदयाद् विद्यमानमपि वस्त्रालङ्कारादि नोपभुङ्क्ते तद् उपभोगान्तरायम् ४ । यदुदयवशाद् बलवान् नीरुजो वयःस्थोऽपि च तृणकुब्जीकरणेऽप्यसमर्थस्तद् वीर्यान्तराषम् ५ इति ॥५१॥ एतच्च भाण्डागारिकसममिति दर्शयन्नाह
सिरिहरियसमं एयं, जह पछिकूलेण तेण रायाई।
म कुणइ दाणाईयं, एवं विग्घेण जीवो वि ॥५२ ।। श्रियो गृहं श्रीगृह-भाण्डागारं तद् विद्यते यस्य स श्रीगृहिकः-भाण्डागारिकस्तेन समंतुल्यमेतदन्तरायकर्म । यथा 'तेन' श्रीगृहिकेण 'प्रतिकूलेन' अननुकूलेन 'राजादिः' राजा.
१०वनवसनाङ्ग० ग० कु०॥ २ सकृद्भुज्यते इति भोगः स पुनराहारपुष्पादिषु । उपभोगस्तु पुनः पुनरुपभुज्यते मवनवनितादि ॥ ३०ऽथ च खगङ० ।।