________________
४९-५१ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
न पुनरुष्णाद्यभितापेन द्वीन्द्रियादीनामिव विशिष्टम् १ इति । यदुदयात् सूक्ष्माः पृथिवीकायिकादयः पञ्च भवन्ति तदपि जीवविपाक सूक्ष्मनामकर्म २ इति । यदुदयात् पूर्वोक्तस्वयोपर्याप्तपुरिसमाप्तिविला जन्तवो भवन्ति तद् अपर्याप्तनाम, अपर्याप्तयो विद्यन्ते येषां dsपर्याप्ता इति कृत्वा, तन्निबन्धनं नाम अपर्याप्तनाम । तत्र द्वेधा अपर्याप्ताः - लब्ध्या करणैश्च । तत्र येऽपर्याप्ता एवं सन्तो म्रियन्ते, न पुनः स्वयोग्य पर्याप्तः सर्वा अपि समर्थयन्ति ते लब्ध्यपर्याप्ताः । ये पुनः करणानि - शरीरेन्द्रियादीनि न तावत् निर्वर्तयन्ति, अथ चावश्यं पुरस्ताद् निर्वर्तयिष्यन्ति ते करणापर्याप्ताः । इह चैवमागमः - लब्ध्यपर्याप्ता अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते नार्वाक, यस्मादागामिभवायुर्वद्ध्वा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यत इति ३ । यदुदयाद् अनन्तान जीवानां साधारणम्-एकं शरीरं भवति तत् साधारणनाम ४ | यदुदयात् कर्ण जिह्वाद्यवयवा अस्थिराः-चपला भवन्ति तद् अस्थिरनाम ५ | यदुदयाद् नामेग्धः पादादीनामवयवानामशुभता भवति तद् अशुभनाम, पादादिना हि स्पृष्टः परो रुष्यतीति तेषामशुभत्वम् । कामिनीव्यवहा रेण व्यभिचार इति चेत्, नैवम् तस्य मोहनिबन्धनत्वात्, वस्तुस्थितिश्चेह चिन्त्यत इति ६ । यदुदयवशाद् उपकारकृदपि जनस्याऽग्रियो भवति तद् दुर्भगनाम । उक्तं च
3
६७
'उबगार कारगो वि हु, न रुचई दूभगो उ जस्सुदए । ७ इति ।
दुयात् खरभिन्नहीनस्वरो भवति तद् दुःस्वरनाम ८ | यदुदयवशाद् युक्तियुक्तमपि ब्रुवाणो नाssदेयवचनो भवति न च लोकोऽभ्युत्थानादि तस्य करोति तद् अनादेयनाम ह | यदुदयात् पूर्वप्रदर्शिते यशःकीर्ती न भवतस्तद् अयशः कीर्तिनाम १० इति ॥ ५० ॥
व्याख्यातं द्विचत्वारिंशद्भेदं त्रिनवतिभेदं त्र्युत्तरशतभेदं सप्तषष्टिभेदं षष्ठं नाम । सम्प्रति द्विभेदं गोत्रकर्माभिधित्सुराह
गोयं दुहुच्चनोयं, कुलाल इव सुघडभु भलाईयं । " विग्धं दाणे लाभे, भोगुव भोगेसु विरिए य ॥ ५१ ॥
गोत्रं प्राग्वर्णित शब्दार्थ 'द्विधा' द्विभेदम् कथम् ? इत्याह – 'उच्चनीचं' उच्चं च नीचं च उच्चनीचम्, उच्चैगोंत्रं नीचैर्गोत्रमित्यर्थः । एतच्च 'कुलाल इव कुम्भकारतुल्यम् । शोभनो घटः सुघट:- पूर्णकलशः, भुम्भलं - मद्यस्थानम्, सुघटभुम्भले आदी यस्य तत्कृतोपकरणस्य तत् सुम्भलादि करोतीति शेषः । अयमत्र भावः - यथा हि कुलालः पृथिव्यास्तादृशं पूर्णकलचादिरूपं करोति यादृशं लोकात् कुसुमचन्दनाक्षतादिभिः पूजां लभते स एव शुम्भ
१ उपकारकारकोsपि हि न रोचते दुर्भागस्तु यस्योदये ॥