________________
६६
देवेन्द्रसूरिविरचित स्वोपज्ञटीकोपेतः
[ गाथा
त्यर्थः ४ | 'स्थिर' स्थिरनामोदयेन दन्ताऽस्थ्यादि निश्चलं भवति, यदुदयात् शिरोऽस्थिग्रीवादीनामवयवानां स्थिरता भवति तत् स्थिरनामेत्यर्थ: ५। 'शुभं' शुभनामोदयात् नाभ्युपरि शिरआदिर्भवति, यदुदयाद् नाभेरुपर्यवयवाः शुभा भवन्ति तत् शुभनाम, शिरःप्रभृतिभिः स्पृष्टः परो हृष्यतीति तेषां शुभत्वम् ६ । 'सुभगात् ' सुभगनामोदयेन सर्वजनेष्टो भवति, यदुदयाद् अनुपकार्यपि सर्वस्य मनःप्रियो भवति तत् सुभगनामेत्यर्थः ७ । तदभ्यधायि — अणुवक वि बहूणं, होइ पिओ तस्स सुभगनामुदओ ति । - सुभगुद विहु कोई, कंची आस दूभगो जइ वि । जाय तदोसाओ, जहा अभव्वाण तित्थयरो ||
सुसरा महुरसुहझुणी, आइज्जा सव्वलोयगज्झवओ । जसओ जसकित्ति इओ, थावरदसगं विवज्जत्थं ॥ ५० ॥
118211
'सुस्वरात्' सुस्वरनामोदयेन मधुरः - माधुर्यगुणालङ्कृतः सुखयतीति सुखः-सुखदो ध्वनिःस्वरो भवति यदुदयाद् जीवस्य स्वरः श्रोत्रप्रीतिहेतुर्भवति तत् सुस्वरनामेत्यर्थः ८ । 'आदेयाद्' आदेयनामोदयेन सर्वलोकेन समस्तजनेन ग्राह्यम् - आदेयं वचः - वचनं यस्य स तथा, यदुदयाद् यत्किञ्चिदपि ब्रुवाणो जीवः सर्वस्योपादेयवचनो भवति, दर्शनसमनन्तरमेव तस्याभ्युत्थानादि समाचरति तद् आदेयनामेत्यर्थः ६ । “जस उ" "त्ति यशःकीर्तिनामोदयाद् यशःकीर्तिर्भवति । तत्र सामान्यतस्तपः शौर्यत्यागादिसमुपार्जितयशसा कीर्तनं संशब्दनं श्लाघनं यशः कीर्तिरुच्यते । यद्वा
दानपुण्यकृता कीर्तिः, पराक्रमकृतं यशः ।
अथवा
एक दिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः । १० इति ।
व्याख्यातं त्रसदशकम् | सम्प्रति स्थावरदशकं व्याचिख्यासुरतिदिशति - 'इतः ' त्रसदशकात् स्थावरदशकं 'विपर्यस्तं ' विपरीतार्थं भवति । तथाहि - तिष्ठन्तीत्येवं शीला उष्णाद्यभितापेऽपि तत्परिहाराऽसमर्थाः स्थावराः, “स्थेशभासपिसकसो वरः " ( सि० ५ - २ - ८२ ) इति वरप्रत्ययः, पृथिवीकायिका अष्कायिकास्तेजस्कायिका वायुकायिका वनस्पतिकायिका एकेन्द्रियाः, तद्विपाकवेद्यं कर्मापि स्थावरनाम । तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं स्वाभाविकमेव,
१ अनुपकृतेऽपि बहूनां भवति प्रियस्तस्य सुभगनामोदयः ॥ सुभगोदयेऽपि खलु कश्चित् कञ्चिदासाद्य दुर्भगो यद्यपि । जायते तद्दोषात् यथाऽभव्यानां तीर्थंकरः ॥ २०त्ति यशसः यशोनामकर्मोदयेन यशःकी० ० ॥