________________
६५
४८-४६ ]
कर्मविपाकनामा प्रथमः कर्मप्रन्थः ।
णादलिकमादाय उच्छ्वासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः ४ । यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा भाषापर्याप्तिः ५ । यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनःपर्याप्तिः ६ । एताश्च यथाक्रममेकेन्द्रियाणां द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियाऽसंज्ञिपञ्चेन्द्रियाणां संज्ञिपञ्चेन्द्रियाणां च चतुःपञ्चपट्या भवन्ति । तथा वैक्रियशरीरिणां शरीरपर्याप्तिरेवैका आन्तमौहूर्तिकी, शेषाः पञ्चाप्येकसामयिक्यः । औदारिकशरीरिणां पुनराहारपर्याप्तिरेवैका एकसामयिकी, शेषाः पुनरान्तमौहूर्तिक्यः । आह च -
'वे उब्वियपजत्ती, सरीर अंतमुहु सेस इगसमया । आहारे इगसमया, सेसा अंत ओराले ॥
ततः पर्याप्तयो विद्यन्ते येषां " अभ्रादिभ्यः " ( सि० ७ - २ - ४६ ) इति अप्रत्यये ते पर्याप्ताः, तद्विपाकवेद्यं कर्मापि पर्याप्तनाम | यदुदयात् स्वपर्याप्तियुक्ता भवन्ति जीवास्तत् पर्याप्तनामेत्यर्थः ३ । ते च पर्याप्ता द्विधा - लब्ध्या करणैश्च । तत्र ये स्वयोग्यपर्याप्तीः सर्वा अपि समर्थ्य म्रियन्ते नार्वाक् ते लब्धिपर्याप्ताः, ये च पुनः करणानि - शरीरेन्द्रियादीनि निर्वर्तितवन्तस्ते करणपाता इति ।
- ननु च शरीरपर्याप्त्यैव शरीरं भविष्यति, किं प्रागभिहितेन शरीरनाम्ना ?, नैतदस्ति साध्यभेदात् । तथाहि—शरीरनाम्नो जीवेन गृहीतानां पुद्गलाना मौदारिकादिशरीरत्वेन परिणतिः साध्या, शरीरपर्याप्तेः पुनरारब्धशरीरस्य परिसमाप्तिरिति । अथ प्रागुक्तेनोच्छ्वासनाम्नैवोच्छ्वसनस्य सिद्धत्वात् इहोच्छ्वासपर्याप्तिर्निर्विषयेति, नैवम्, सतीमप्युच्छ्वासनामोदयेन जनितामुच्छ्वसनलन्धिमात्मा शक्तिविशेषरूपामुच्छ्वासपर्याप्तिमन्तरेण व्यापारयितु ं न शक्नुयात् । यथा हिं शरीरनामोदयेन गृहीता अप्यौदा रिकादिशरीरपुद्गलाः शक्तिविशेषरूपां शरीरपर्याप्तिं विना शरीररूपतया परिणमयितुं न शक्यन्त इति शरीरनाम्नः पृथग् इष्यते शरीरपर्याप्तिः, एवमत्राप्युच्छ्वासनाम्नः पृथगुच्छ्वासपर्याप्तिरेष्टव्या, तुल्ययुक्तत्वादिति ||४८ ||
पत्तेय तण पत्तेउदयेणं दंतअट्ठिमाइ थिरं ।
नावरि सिराइ सुहं, सुभगाओ सब्वजणइट्ठो ॥४६॥
'प्रत्येकोदयेन' प्रत्येकनामकर्मोदयवशाद् जन्तूनां 'प्रत्येकं तनुः' पृथक् पृथक् शरीरं भवति यदुदयाद् एकैकस्य जन्तोरेकैकं शरीरमौदारिकं वैक्रियं वा भवति तत् प्रत्येकनामे
१ वैकियपर्याप्तिः शरीरे भान्तर्मौहूर्तिकी शेषा एकसामयिक्यः । आहा रे (पर्याप्तिः ) एकसामयिकी शेषा आन्तमहूर्तिक्य औदारिके ।।
९