________________
६४
देवेन्द्रसूरिविरचित स्वोपज्ञटीकोपेतः
व्याख्याता अष्टौ प्रत्येकप्रकृतयः । साम्प्रतं त्रसदशकं व्याख्यानयन्नाहबितिचउपणिदिय तसा, बायरओ बायरा जिया थूला । नियनियपज्जत्तिजया, पज्जन्त्ता लडिकरणेहिं ॥४८||
[ गाथा
त्रस्यन्ति - उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानाद् उद्विजन्ते गच्छन्ति च छायाद्या सेवनार्थं स्थानान्तरमिति त्रसाः, ' तत्पर्यायविपाकवेद्यं कर्मापि सनाम । ततः 'त्रसात्' त्रसनामोदयाद् जीवाः “वितिचउपणिदिय" ति इन्द्रियशब्दस्य प्रत्येकं योगाद् द्वे इन्द्रिये स्पर्शनरसनलक्षणे येषां ते द्वीन्द्रियाः शङ्खचान्दनककपर्द जलू का कृमिगण्डोलकपूतरकादयो भवन्ति । त्रीणि स्पर्शनरसन घाणलक्षणानीन्द्रियाणि येषां ते श्रीन्द्रियाः, यूकामत्कुणगर्दभेन्द्रगोपककुन्थु मत्कोटकादयः । चत्वारिं स्पर्शनरसनप्राणचचुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः, मक्षिकाभ्रमरमशकवृश्चिकादयः । पञ्च स्पर्शनरसनघ्राणचक्षुः श्रोत्र रूपाणीन्द्रियाणि येषां ते पञ्चेन्द्रियाः, मत्स्य मकरहरिहरिणसारसराजहंसनरसुरनारकादयो भवन्तीति । यदुदयाद् जीवास्सा द्वित्रिचतुःपञ्चेन्द्रिया भवन्ति तत् त्रसनामेत्यर्थः १ | 'बादराद्' बादरनामोदयाद् 'जीवाः' जन्तवो बादरा:- स्थूला भवन्ति ।
बादरत्वं चेह न चक्षुर्ग्राह्यत्वमिष्टम्, बादरस्याप्येकैकस्य पृथिव्यादिशरीरस्य चक्षुग्राह्यत्वाभावात् । तस्माद् जीवविपाकित्वेन जीवस्यैव कश्चिद् बादरपरिणामं जनयति एतद्, न पुगलेषु, किन्तु जीवविपाक्यप्येतत् शरीरशुद्रलेष्वपि काञ्चिदप्यभिव्यक्ति दर्शयति । तेन वादराणां बहुतरसमुदितपृथिव्यादीनां चक्षुषा ग्रहणं भवति, न सूक्ष्माणाम् । जीवविपाकिकर्मणः शरीरे स्वशक्तिप्रकटनमयुक्तमिति चेत् नैवम्, जीवविपाक्यपि क्रोधो भ्रूभङ्गत्रिवलीतरङ्गितालिकफलकशरत्स्वेदजलकणनेत्राद्याताम्रत्वपरूपवचन वेपथुप्रभृतिविकारं कुपितनरशरीरेऽपि दर्शयति, विचित्रत्वात् कर्मशक्तेरिति ।
,
यदुदयाद् जीवा बादरा भवन्ति तद् बादरनामेत्यर्थः २ । 'पर्याप्तात् ' पर्याप्तनामोदयाद् जीवा निजनिजपर्याप्तियुता भवन्ति । तत्र पर्याप्तिर्नाम पुद्गलोपचयजः पुद्गलग्रहणपरिणमन हेतुः —–शक्तिविशेषः, सा च विषयभेदात् षोढा - आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ उच्छ्वासपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपर्याप्तिः ६ चेति । तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः १ । यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमजा शुक्रलक्षण सप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २ । यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३ । यया पुनरुच्छ्वासप्रायोग्यवर्ग
१०कटका० ख० घ ङः ॥