________________
४०.४३ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । १०८) इति सूत्रेण, यथा देवदत्तः देवः दत्तः इति । ततो नरकादिगतिनरकाद्यानुपूर्वीस्वरूपं नरकादिद्विकमुच्यते । तदेव त्रिकमभिधीयते--गतिपूर्वीद्विकमिह काकाक्षिगोलकन्यायेन सम्बध्यते । कीदृशं तद् ? इत्याह-'निजायुयुतं" नरकाद्यायुष्कसमन्वितं नरकादित्रिकमुच्यत इति हृदयम् । उपलक्षणत्वाद् वैक्रियपट्कं विकलत्रिकम् औदारिकद्विकं वैक्रियद्विकम् आहारकद्विकम् अगुरुलघुचतुष्क वैक्रियाष्टकमित्याद्यनुक्तं संज्ञान्तरं ग्राह्यम् । तत्र देवगतिर्देवानुपूर्वी नरकगतिर्नरकानुपूर्वी क्रियशरीरं वैक्रियाङ्गोपाङ्गमिति वैक्रियषट्कम् । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां जातयो विकलत्रिकम् । औदारिकशरीरं औदारिकाङ्गोपाङ्गमित्यौदारिकद्विकम् । वैक्रियशरीरं वैक्रियाङ्गोपाङ्गमिति वैक्रियद्विकम् । आहारकशरीरम् आहारकाङ्गोपाङ्गमित्याहारकद्विकम् । देवगतिर्देवानुपूर्वी देवायुर्नरकगतिर्नरकानुपूर्वी नरकायुर्वे क्रियशरीरं वैक्रियाङ्गोपाङ्गमिति वैक्रियाष्टकम् । अगुरुलघु१उपघात२पराघात३उच्छवास४लक्षणमगुरुलघुचतुष्कमिति । ननु आनुपूर्व्या उदयो नरकादिषु किमृजुगत्या गच्छत आहोस्विद् वक्रगत्या ? इत्याशङ्कयाह-"पुव्वीउदो वक्के" त्ति पूव्या:-आनुपूर्व्या वृषभस्य नासिकारज्जुकल्पाया उदयः-विपाको वक्र एव भवति । अयमर्थः-नरके द्विसमयादिवक्रेण गच्छतो जीवस्य नरकानुपूर्व्या उदयः, तिर्यक्षु द्विसमयादिवक्रेण जीवस्य गच्छतस्तिर्यगानुपूर्व्या उदयः, मनुष्येषु द्विसमयादिवक्रेण गच्छतो जीवस्य मनुष्यानुपूर्व्या उदयः, देवेषु द्विसमयादिवक्रेण गच्छतो जीवस्य देवानुपूर्व्या उदयः । उक्तं च बृहत्कर्मविपाके
'नरयाउयस्स उदए, नरए वक्केण गच्छमाणस्स । नरयाणुपुब्बियाए, तहिँ उदओ अन्नहिं नत्थि ।। (गा०१२२) एवं तिरिमणुदेवे, तेसु वि वक्केण गच्छमाणस्स ।
तेसिमणुपुब्बियाणं, तहिं उदओ अन्नहिं नत्थि ॥ (गा०१२३) तथा विहायसा-आकाशेन गतिविहायोगतिः, सा द्विधा-'शुभा' प्रशस्ता 'अशुभा' अप्रशस्ता । क्रमेणोदाहरणमाह- "वसुट्ट" ति घृषः-वृषभः सौरभेयो बलीव इति यावत्, ततो वृषस्य उपलक्षणत्वाद् गजकलभराजहंसादीनां प्रशस्ता विहायोगतिः। उष्ट्र:-करभः क्रमेलक इति यावत् , तत उष्ट्रस्य उपलक्षणत्वात् खरतिड्डादीनामप्रशस्ता विहायोगतिरिति ।।४२।।
व्याख्याताः पिण्डप्रकृतीनामुत्तरभेदाः, साम्प्रतमष्टौ प्रत्येकप्रकृतीरभिधित्सुराह
परघाउदया पाणी, परेसि बलिणं पि होइ दुखरिसो।
ऊससणलडिजुत्तो, हवेह ऊसासनामवसा ।।४३।। १ नरकायुष उदये नरके वक्रेण गच्छतः। नरकानुपूस्तित्रोदयोऽन्यत्र नास्ति । एवं तिर्यग्मनुष्यदेवेषु तेष्वपि वक्रण गच्छतः। तेषामानुपूर्वीणां तत्रोदयोऽन्यत्र नास्ति ।