________________
६२ ]
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
परान् आहन्ति - परिभवति परैर्वा न हन्यते - नाभिभूयत इति पराघातम्, तन्निबन्धनं नाम पराघातनाम । ततः 'पराघातोदयात् ' पराघातनामकर्मविपाकात् 'प्राणी' जन्तुः 'परेषाम् ' अन्येषां ‘बलिनामपि' बलवतामपि आस्तां दुर्बलानामित्यपिशब्दार्थः, 'भवति' जायते 'दुर्धर्षः’ अनभिभवनीयमूर्तिः । अयमर्थः - यदुदयात् परेषां दुष्प्रधर्षः - महौजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महाभूपसभामपि गतः सभ्यानामपि क्षोभमुत्पादयति प्रतिपक्ष प्रतिभाप्रतिघातं च करोति तत् पराघातनामेत्यर्थः १ । 'उच्छ्वासना मवशाद्' उच्छ्वास नामकर्मोदयेन उच्छ्वसनलधियुक्तो भवति' उच्छ्वा' सलब्धिसमन्वितो जायते, यदुदयाद् उच्छ्वसनलब्धिरात्मनो भवति तद् उच्छ्वासनाम २ । सर्वलब्धीनां क्षायोपशमिकत्वाद् औदयिकी लब्धिर्न सम्भवतीति चेत्, नैतदस्ति, वैक्रियाहारकलब्धीनामौदयिकीनामपि सम्भवाद्, वीर्यान्तरायक्षयोपशमोऽपि चात्र निमित्तभवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि न विरुध्यते ||४३||
रविधिंबे उजियंगं, तावजुयं आयवाउ न उ जलणे । जमुसिणफासस्स तहिँ, लोहियवन्नस्स उदउत्ति | ४४ ||
''आतपाद्' आतपनामोदयाद् जीवानामङ्ग शरीरं 'तापयुतं' स्वयमनुष्णमप्युष्ण प्रकाशयुक्तं भवति । आतपस्य पुनरुदयो रविविम्व एव तुशब्द एवकारार्थः । कोऽर्थः ? - भानुमण्डलादिपार्थिव शरीरेष्वेव 'न तु' न पुनः 'ज्वलने' हुतभुजि । अत्र युक्तिमाह- 'यद्' यस्मात् कारणात् 'तत्र' ज्वलने- ज्वलनजन्तुशरीरे तेजस्कायशरीर इत्यर्थः उष्णस्पर्शस्योदयस्तथा लोहितवर्णस्योदय इति, तेजस्कायशरीराण्येवोष्णस्पर्शादियेनोष्णानि लोहितवर्णनामोदयात्तु प्रकाशयुक्तानि भवन्ति, न त्वातपोदयादिति भावः । यदुदयाद् जन्तुशरीराण्यात्मनाऽनुष्णान्यप्युष्णप्रकाशरूपमातपं कुर्वन्ति तद् आतपनामेत्यर्थः ३ ॥४४॥
अणुपियावं, जियंगमुज्जोयए इहुज्जोया । "जइ देवुत्तर विक्कियजोइ सखज्जोयमाइ व्व ॥ ४५ ॥
-
इह 'उद्योताद्' उद्योतनामोदयेन 'जीवाङ्गं' जन्तुशरीरम् 'उद्योतते' उद्योतं करोति, कथम् ? इत्याह – अनुष्णप्रकाशरूपम्, उष्णप्रकाशरूपं हि वह्निरप्युद्योतत इति तद्द्व्यवच्छेदार्थमनुप्रकाशरूपमित्युक्तम् | आह क इवोद्योतोदयाद् जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्ति ? इत्याह-- 'यतिद्विवोत्तरवै क्रियज्योतिष्कखद्योतादय इव' तत्र यतयश्व - साधवः देवाश्च - सुराः यतिदेवाः, यतिदेवै मूलशरीरापेक्षयोत्तरकालं क्रियमाणं वैक्रियं यतिदेवोत्तरवै क्रियम्, ज्योतिकाः - चन्द्रग्रहनक्षत्रताराः, खद्योताः - प्रतीताः, ततो यतिदेवोत्तरखैक्रियं च ज्योतिष्काव
१०सनिःश्वासल ०० ० ङ० ॥