________________
देवेन्द्रसूरिविरचितस्वोपाटीकोपेतः
[गाथा मानानामवन्धनिबन्धनं भस्माद्याधारो रूमः ८ । एतत्संसर्गजास्तु नोक्ताः, एवेवान्तर्भावादिति । ततो यदुदयाद् जन्तुशरीरं गुरु भवति वज्रादिवद् तद् गुरुस्पर्शनाम १ । यदुदयाद् जन्तुशरीरमर्कतूलादिवद् लघु भवति तद् लघुस्पर्शनाम २ । यदुदयाद् जन्तुशरीरं हंसरूतादिवद् मृदु भवति तद् मृदुस्पर्शनाम ३ । यदुदयाद् जन्तुशरीरं खरं-कर्कशं पाषाणादिवद् भवति तत् खरस्पर्शनाम ४ । यदुदयाद् जन्तुशरीरं शीतं-शीतलं मृणालादिवद् भवति तत् शीतस्पर्शनाम ५ । यदुदयात् जन्तुशरीरं हुतभुजादिवद् उष्णं भवति तद् उष्णस्पर्शनाम ६ । यदुदयाद् जन्तुशरीरं घृतादिवत् स्निग्धं भवति तत् स्निग्धस्पर्शनाम ७ । यदुदयाद् जन्तुशरीरं भूत्यादिवत् रूई भवति तद् रूक्षस्पर्शनाम ८ ॥ ४० ॥ उक्तमष्टधा स्पर्शनाम । इदानीं वर्णादिचतुष्कोत्तरविंशतिभेदानां शुभाशुभत्वयोरभिधित्सया प्राह
नीलकसिणं दुगंध, तित्तं कडयं गुरु खरं रुक्खं ।
सोयं च अमुहनवगं, इकारसगं सुभं सेसं ॥४१॥ 'नीलकृष्णं' नीलकृष्णाख्ये कर्मणी अशुभे, दुर्गन्धनाम, "तित्तं कडयं" इति तिक्तकटुके रसनाम्नी, गुरु खरं रूक्षं शीतं चेति चत्वारि स्पर्शनामानि । एतानि च सर्वाण्यपि समुदितानि किमुच्यते ? इत्याह-'अशुभनवकं' नव प्रकृतयः परिमाणमस्य प्रकृतिवृन्दस्य तद् नवकम् , अशुभं च तद् नवकं च अशुभनवकम् । 'एकादशकम्' एकाद' शप्रकृतिसमूहरूपं, यथा रक्तपीतश्वेतवर्णाः, सुरभिगन्धः मधुराऽम्लकषायरसाः, लघुमृदुस्निग्धोष्णस्पर्शा इति 'शुभं' शुभविपाकवेद्यत्वात् शुभस्वरूपम् । कीदृक्षं तत् ? इत्याह-'शष' कुवर्णनवकाद् अवशिष्टम् , कोऽर्थः ? कुवर्णनवकात् शेषा एकादश वर्णादिभेदाः शुमवणकादशकमुच्यत इति ॥४१॥
अधुना गतिनामातिदेशेनाऽऽनुपूर्वीचतुष्टयम् , आनुपूर्वीसम्बन्धेनोत्तरत्रोपयोगिप्रकृतिसमुदायसङ्घाहिनरकद्विकादिरूपं संज्ञान्तरं, विहायोगतिद्विकं चाभिधातुमाह
. चउह गइ व्वऽणुपुषी, गइपुब्धिदुर्ग तिगं नियाउजुयं ।
पुन्वीउदओ धक्के, मुह असुह पसुट विहगगई ॥४२॥
चतुर्धा गतिरिवाऽऽनुपूर्वी प्रागुक्तरूपा भवति । कोऽर्थः ? -गत्यभिधानव्यपदेश्यमानुपूवीनाम, ततो निरयानुपूर्वीतिर्यगानुपूर्वीमनुष्यानुपूर्वीदेवानुपूर्वीभेदत आनुपूर्वीनाम चतुति तात्पर्यम् । तत्र नरकगत्या नामकर्मप्रकृत्या सहचरिताऽऽनुपूर्वी नरकगत्यानुपूर्वी, तत्समकालं चास्या वेद्यमानत्वात् तत्सहचरित्वम् । एवं तिर्यग्मनुष्यदेवाऽऽनुपूर्योऽपि वाच्याः। "गइपुब्धिदुगं" ति इह पूर्वीशब्देनाऽऽनुपूर्वी भण्यते, आनुशब्दलोपः "ते लुग्वा" (सि० ३-२
१ शसङ्ख्याप्रकृ० ख० ग० ० ॥