________________
९
४.]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । श्लेष्माणमरुचि पित्तं, तृषं कुष्ठं विषं ज्वरम् ।
हन्यात् तिक्तो रसो बुद्धेः, कतो मात्रोपसेवितः ।।इति । यदुदयाद् जीवशरीरं निम्बादिवत् तिक्तं भवति तत् तिक्तनाम १ । गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः । यदवादि
कटुगेलामयं शोफं, हन्ति युक्त्योपसेवितः ।
दीपनः पाचको रुच्यो, बृहणोऽतिकफापहः ।। यदुदयाद् जन्तुशरीरं मरिचादिवत् कटु भवति तत् कटुनाम २ । रक्तदोषाद्यपहा बिभीतकाऽऽमलककपित्थाद्याश्रितः कषायः । यदभाणि
. रक्तदोषं कर्फ पित्तं, कषायो हन्ति सेवितः ।
रूक्षः शीतो गुरुग्राही, रोषणश्च स्वरूपतः ।। यदुदयाद् जन्तुशरीरं बिभीतकादिवत् कषायं भवति तत् कषायनाम ३ । अग्निदीपनादिकृद् अम्लीकाद्याश्रितोऽम्लः । यदभ्यधायि
अम्लोऽग्निदीप्तिकृत स्निग्धः, शोकपित्तकफापहः ।
क्लेदनः पाचनो रुच्यो, मूढवातानुलोमकः ।। यदुदयाद् जीवशरीरमम्लीकादिवद् अम्लं भवति तद् अम्लनाम ४ । पित्तादिप्रशमकः खण्डशर्करावाश्रितो मधुरः । यदवाचि
पित्तं वातं कर्फ हन्ति, धातुवृद्धिकरो गुरुः ।
जीवनः केशकृद् बालवृद्धक्षीणौजसा हितः || यदुदयाद् जन्तुशरीरमिक्ष्वादिवद् मधुरं भवति तद् मधुरनाम ५ । स्थानान्तरे स्तम्भिताहारविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठयते, स चेह नोपात्तः, मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात् । सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वोपपत्तेरिति । अभिहितं पञ्चधा रसनाम ॥
अधुना स्पर्शनाम अष्टधा प्राह-स्पृश्यन्त इति स्पर्शाः 'अष्टौ' अष्टसङ्ख्याका भवन्ति । तथाहि-गुरु१लघु२मृदु३खर४शीत५उष्ण६स्निग्धरूक्षाः ८ इति । तत्राधोगमनहेतुरयोगोलकादिगतो गुरुः १ । प्रायस्तिर्यगूर्ध्वगमनहेतुरर्कतूलादिनिश्रितो लघुः २ । सन्नतिकारणं तिनिसलतादिगतो मृदुः ३ । स्तब्धतादिकारणं दृषदादिगतः खरः ४ । देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः ५ । आहारपाकादिकारणं ज्वलनाद्यनुगत उष्णः ६ । पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः ७ । पुद्गलद्रव्याणां मिथोऽसंयुज्य